________________ 178 पञ्चग्रन्थी व्याकरणम् प्रागुक्तो वुञ् स मितो विद्यायोनिसम्बन्धात् / उ: / ऋवर्णान्ताद् आगतेऽञ् वक्ष्यते / होतृकम् / मातृकम् / व्यचीति / षष्ठ्यन्तात् तस्याम्नायसमूहवर्गा इत्यर्थे नडादेः कुग्युक्तः, तदर्थे चरणवाचिनो वुञ् क्रोचश्चिदेतदर्थः / कठानामाम्नायः संघः धर्मो वा / काठकः / मौदक: पौप्पलादकः / ग्रीष्मवरसमाद् वुञ् ऋणे इति सप्तम्यन्तात् कालवाचिनो देयमृणमित्यर्थे / संवत्सराग्रहायणीभ्यां वा / वात्र सम्बध्यते / अश्वत्थादे रजित् / वुात्र गित्यर्थे / ग्रीष्मे देयमणं ग्रैष्मकम् / अवरासमा / अवरसमम् / तिष्ठद्ग्वादौ / आवरसमकम् / एवं सांवत्सरिकम् / [सांवत्सरकम् / आग्रहायणिकम् / आग्रहायणकम् / ] कालात् ठचुऔ / यस्मिन् काले अश्वत्थाः फलन्ति, मयूराः कलापिनो भवन्ति, यवानां बुसमुत्पद्यते, स तथा देयमृणम्, अश्वत्थकम् / [कलापकम् / यवबुसकम् / ] (36) तनदृिच्चिरं प्रगे प्रानेऽव्ययात् / [3 / 15 / 2 / ] एभ्यः शेषे तनट् स्यात् / टित् / मुमन्ते निपातनात् / चिरे जातादि / चिरन्तनम् / प्रगेतनम् / अव्ययात् / सायं भवः सायन्तनः / प्राक्तनः / दिवातनः / कालादेव / स्वर्भवः सौवरः // (37) वाऽच् / [3 / 15 / 3 / ] अपराह्नपूर्वाह्नाद् अच् वाऽत्र पठ्यते / ततः शेपे तनट स्यात् / कालात् ञ् वा / अपराहणेतनी / [पूर्वाह्णतनी / ] आपराणिकम् / [पौर्वाणिकम् // ] (38) नः परुत्परारेश्चिरात् / [3 / 15 / 4 / ] एभ्य कालेभ्यः शेषे लः स्यात् / परुनः / [परारित्नः / चिरत्नः / ] टित्तनो वा // (39) तथा प्रावृष एण्यः / [3 / 15 / 5 / ] तथेति शेषे स्यात् / प्रावृषि भवः प्रावृषेण्यः / इतः परस्तु नियतेऽर्थे // (40) जातः ठोऽत्र / [3 / 15 / 6 / ] अत्र प्रावृषि जातः इत्यर्थे ठः स्यान्नैण्यः / प्रावृषिकाः / / (41) अपि / [3 / 15 / 7 / ] जातोऽत्रेत्यनुकांथोऽपिः / अत्रायि सप्तम्यन्ताज्जातेत्यर्थे यथाविध्यणादि घादिश्च स्यात् / स्रुघ्ने जातः, स्रोघ्नः / औत्सः / राष्ट्रियः / [अवार-]पारीणः / जातः किम् ? स्रुघ्ने भुङ्के शेते इत्यादि / (42) लुग्नाम्नि तु कादि भादेः / [3 / 15 / 8 / ] नक्षत्रादेस्तत्र जात इत्यर्थे कादयः स्युः / त्विति बहुलम् संज्ञागतौ लुक् च / गाथेहानुष्टुभौ च मूलप्रदोषापथिस्तु पन्थोऽपराह्नपूर्वाह्नजावस्करात् कः / काणामीभ्योऽपकराच्च सिन्धोः काल्लुग्विशाखाबहुलानुराधा / स्थानान्तगोशालपुनर्वसुभ्योऽपि तिष्यहस्तात् खरशालतोऽपि // 1 // रेवतीरोहिणी चित्राभ्यः स्त्रियां तज्जमृगशिरः / वत्सशालाभिजिदश्च वुञ्च नृभिषजो न वा // 2 // टातौ फल्गुन्यषाढाभ्यां श्रविष्ठाषाढतस्तु छण् / निदण्वा वुञ् शरदस्तु अधोऽवसो डमो गणाः // 3 //