________________ तृतीयोऽध्यायः प्रथमः पादः 177 भवन्ति / एवं चौरा हि [नागरका भवन्ति / ] कत्यादौ / नागरेयकः / अनयोः किम् ? नागरोऽत्र / अरण्यात् ब्रादिष्वर्थेषु / आरण्यको नरोऽध्यायो न्यायः पन्था विहारो हस्ती वा / गोमयेऽर्थे वाऽणेव / आरण्यको, [आरण्यो] गोमयोऽघ्यः / अध्यायादौ च वा, नरे नित्यम् / तदत्राथशब्दात् / युगन्धरात् कुरांश्च वुञ् अण् वा / यौगन्धरकः [यौगन्धरः / कौरवकः / कौरवः / कच्छादित्वात् / ] नृतत्स्थे नित्यम् / कौरवको ना / तद्वासश्च / अपि किम् ? नातो वासादि सपूर्वपदादग्न्यादेः देशे / कालाग्नकः / भारुकच्छक: सैन्धुवक्त्रकः / चाक्रवर्तकः / कच्छ च / कच्छाद्यन्तयजत्वान्नरे तत्स्थे चार्थे / काच्छको नरः / तद्धासो वा / अन्यत्र काच्छः / कच्छादौ नृतत्स्थे साल्वात् सिद्धेऽपदातावेव / पदातिस्तु साल्वः / वर्गु नदस्तदासन्नो देशोऽपि, तत्र / काच्छको गौः / वर्णौ किम् / कान्थिकः / अत्र स इति निर्देशात् साल्वः गोयवाग्वोरर्थयोः / च्छन्दोऽर्थं व्यत्ययः / साल्वको गौः / साल्विका यवागः / साल्वोऽन्यः / छे / छविषये धन्वार्थात् / पारधन्वकः / ऐरावतकः / राष्ट्रार्थात् / आहिसारकः / आदर्शकः / श्यामायनकः / व्यक्त्यर्थोऽर्थः / आहिसारगर्तकः / बहुत्वात् / बहुवचनांवषयाद् राष्ट्रार्थात् / अङ्गेषु भवः, आङ्गकः / वाङ्गकः / दार्वकः / चार्वकः / आजरुन्दकः / अनादेव / त्रैगर्तकः / अच्छेऽपीदम् / बहुत्वात् किम् ? एकत्वद्वित्वार्थान्न / वर्तनीषु तु जाता वार्तनः / देशभेदाद् बहुत्वम् / णे लः यकारादलपतो योपान्तात् / शाङ्काश्यकः / काम्पिल्यकः / सादेः / सप्राक्पदाद् वहादेः / पैलुवहकः / फाल्गुवहकः / मालाप्रस्थकः / शोणाप्रस्थे प्राग्देशे भवः शौणाप्रस्थकः / हास्तिनपुरकः / वाहीकग्रामादपि / वानप्रस्थकः / नान्दीपुरकः / कौमुदीवहकः / दाशरूप्यकः / छे किम् ? शैवपुरम् / रूपान्तैः / रेफोपान्तादीकाराच्च प्राग्देशवाचिनच्छे / पाटलिपुत्रकः / रैवतककः / काकन्दकः / माकन्दकः / प्राच्यात् किम् ? दासमित्रीयः / छे किम् ? / दाशपुरः / इतः परं प्रत्येकार्थे बहुलार्थत्वाद् गणानां नाण् / कुलालाद् वुञ् कृतार्थे / तृतीयान्तात् तेन कृत इत्यर्थे नाम्नीष्यते / कुलालेन कृतं कौलालकम्, इत्यादि / नाम्नि किम् ? कौलालः श्लोकः / अत्र पञ्चपदी.. . कुलालचाण्डालनिषादसेनासिरिन्ध्रकर्मारवधूश्वपाकाः / ब्रह्मञ्च रुद्रा निषादो रुरुश्च स्याद् देवराजो वरुटोऽपि पर्षत् / स्तः कुम्भकारानुडुहौ च गाथा // 8 // उप्ते / तत्रोप्तमित्यर्थे वुञ् च / आभ्यां वसन्ते उप्तं सस्यं, वासन्तकम् / ठत्रणौ च / ग्रेप्मकम् / ग्रेप्मम् / ठ नित्यम् / आश्विनी] युक्ता पौर्णमासी आश्वयुजी / अश्विनीत्यर्थः / तत्रोप्ता आश्वयुजा माषा / पट्पदी 5 // भक्तौ / प्रथमान्तात् सोऽस्य भक्तिः / सेव्यत इत्यर्थे / क्षत्रियवाचिनः अपत्यान्ताच्च / वेति बहुलम् / नकुलो भक्तिरस्य नाकुलकः / साहदेविकः / पितः / गार्गकः / औपगवकः / ग्लोचुकायनकः / दाक्षकः / न च / पाणिनीयः / पौरवीयः / स्वे वेति / अपत्यान्तात् भक्तौ चोदाहतम् / तस्य स्वमित्यर्थे च / गाय॑स्य स्वं, गार्ग्यम् / तत्स्वम् / अशिष्यदण्डमाणवं किम् ? गोकक्षस्य शिष्याः, गौकक्षाः / दाक्षेर्दण्डमानवाः दाक्षाः / पान्नागाराः / रैवतिकीयाः / निदिति / विद्यया योन्या वा कृतसम्बन्धा, ये च तद्वाचिनः, तत आगत इत्यर्थे / * उपाध्यायदागतम् औपाध्यायकम् / आचार्यकम् / शैष्यकम् / मातामहकम् / पैतामहकम् / मातुलकम् / मित्करणमेतदर्थोपलक्षणार्थम् / तेन मितः प्रकृतेर्यः प्रत्ययः स विद्यायोनिसम्बन्धाद् दृष्टव्यः / यः