________________ 174 पञ्चग्रन्थी व्याकरणम् विषमोत्तममगधगहा एकपलाशान्तरेष्वनीकाः स्युः / इष्वग्रासुरिशैशिरिकामप्रस्थाग्निर्मि स्यात् // 2 // आध्यश्व्येकग्रामेऽपरपक्षक्षैमवृद्धयो व्याडिः / सौवेरणिस्त्वनुत्तर एतेऽवस्यन्दनान्यौ च // 3 / / शाखोऽधमोत्तमसमानात् पार्वैकमुखतस्तश्चेत्कः / स्वपरजनदेवराज्ञं णिन् माध्यामवेत्रवेणूनाम् // 4 // प्रस्थोत्तरपदाभ्यां छोऽजिह्वाकात्यहरितकात्यतस्त्यज्झलादेजाद्यचो देशात् / कटाद्येङाद्यश्च पुरो नृनाम्नो वा भवतः सित् जिह्वामूलाङ्गुलेर्भवे // 5 // . छे ग्रामकन्थापलदहृदन्तात् कखोपधाया नगरान्ततोऽपि / गर्तान्तपर्णकृकणाद् भरद्वाजात् पर्वताद् वा त्वनरे त्वतस्ते // 6 / / रेवतिकौदामधिभ्यां स्वापिशिवैजवापितः / क्षैमवृद्ध्यौदवाहिभ्यां गौरग्रीवेः फिवुनि // 7 // ग्रन्थे सीतान्वेषणयमसभशिशुक्रन्देन्द्रजननेभ्यो-। ऽदेवासुरराक्षोऽसुरो गुणमुखयत्कार्थेभ्यो गाथा // 8 // अन्तस्थीय इत्यादि / शाखः अधमादिः / अधमशाखः / [उत्तमशाखः / समानशाखः / ] पावैकमुखेभ्यः तसोऽन्त इल्लुक् च / पार्श्वतीयः / [एकतीयः / मुखतीयः / ] कडागमश्च स्वादेः। . [स्वकीयः / [परकीयः / जनकीयः / ] णि / मध्यमादेः / कट् च / माध्यामकीयः / [वैत्रकीयः। . वणुकीयः / ] प्रस्थोत्तरपदाभ्यां णि च्छ: स्यान्न काः / प्रास्थीयः / [औत्तरपदीयः / ] त्यत्नपदान्ते आत्वे एव / आद्यच् यस्य तस्माच्च / त्यच् प्रत्याहारः / जिह्वाकात्यहरितकात्यवर्जितात् / तदीयः / किमीयः / तथा शालीयः / एतिकायनीयः / गोरक्षीयः / औपगवीयः / आदि किम् ? साभासन्नयनः / अत् किम् ? हलादेरपि यथा स्यात् / नेह / जैह्वाकाताः च्छात्राः / [हारितकाता:] अत एवापत्यान्तादिवदुत्तरपदात् / पाणिनीयाः / घृतरौढीयाः / कम्बोजवारणीयाः / देशात् पुरः / प्राग्दशवाचिकटायेङाद य च / कटनगरीयः / कटग्रामणीयः / तथा एणीपचनीयः / गोनर्दीयः / यात् किम् ? देवदत्तो [नाम] वाहीकेषु ग्रामः / क्रोडः / उदर्कः / देवदत्तः / एङादचो मनुष्यनाम्नो वा / देवदत्तीयः / देवदत्तः / भवतः छ: सित् / भवदीयः / जिह्वामूलाङ्गलेः / तत्र भवः इत्यर्थे, न शेषे / जिह्वामूलीयः / [अङ्गलीयः / ] षट्पदी // 5 // छे / छविषये छ एव नान्यः ग्रामाद्यन्तात् / दाक्षिग्रामीयः / [दाक्षिकन्थीयः / दाक्षिपलदीयः / दाक्षिहूदीयः / ] गोमयहुदीयः / कखोपान्तात् / आरोहणकीयः / शाल्मलिकीयः / अश्वत्थकीयः / आष्टकं नाम मरुदेशे / आष्टकीयः / राष्ट्रात् / ब्राह्मणकीयः / तथा कौटिशिखीयः / आयोमुखीयः / नगरगर्तान्तात् / दाक्षिनगरीयः / वृकगीयः / श्वाविद्गीयः / रोहिद्गर्तीयः / कृकणपर्णाभ्यां भारद्वाजदेशाभ्याम् / कृकणीयः / [पर्णीयः / / भारद्वाजात् किम् ? कार्कणः / [पार्णः / ] एवं पर्वतीयो नरः / अनरे तु वा एव / पर्वतीयं. [पार्वतं] फलम् / रेवतस्य स्वमित्यर्थे इतः अपत्यात् वुञि प्राप्ते / रेवतिकीयः / ग्रन्थे / अतः परेभ्यो