________________ तृतीयोऽध्यायः प्रथमः पादः 175 द्वितीयान्तेभ्यः तमधिकृत्य कृतो ग्रन्थ इत्यर्थेऽणि प्राप्ते / सीतान्वेषणीयो ग्रन्थः इत्याद्याकृतिगणत्वात् / प्रद्युम्नागमनादेः तथा अदेवासुरादेः चार्थे रः / नार्थो द्वन्द्वः रिदरिति प्रत्याहारार्थः / ततः काकोलुकीयः / शब्दार्थसम्बद्धीयः / वाक्यपदीयं प्रकरणम् / अदेवासुरादेः किम् ? दैवासुरः / [राक्षोऽसुरः / ] गुणमुखाद्यणित्यर्थः // गाथार्याः // 8 // (25) दूरादेत्यः / [3 / 1 / 3 / 6 / ] शेषे / दूरत्यः // . . (26) अग्रान्तादेश्चमन् / [3 / 1 / 37 / ] अग्रिमः / अन्तिमः / आदिमः // (27) पश्चात् [3 / 13 / 8 / ] इमद् / पश्चिमः / पृथक्क्यणर्थम् // दक्षिणाकुतःपुरस्त्यणौत्तराहः खञण् च युष्मदस्मदोर्डकैकतायाम् / तौतवौ ममश्च कत्रितो ढकञ् वृजिमद्रितः को देशकाशितो जिठठञ् // 3 / 1 / 4 // यवमती // (28) दक्षिणाकुतःपुरस्त्यण् / [3 / 1 / 4 / 1 / ] भ्यस् लुक् / एभ्यः पश्चाच्च शेषे त्यण् / दाक्षिणात्यः / कौतस्त्यः / तसः त्यप् च / कुतस्त्यः / पौरस्त्यः / पाश्चात्यः // (29) औतराहः / [3 / 1 / 4 / 2 / ] उत्तरादाहञ् शेषे // (30) खाण्च युष्मदस्मदोर्डकः / [3 / 1 / 4 / 3 / ] आभ्यां शेषे खञ् अण्वा त्यदादि छश्च स्यात् तयोर्ड कान्तश्च / यौष्माकीणः / यौष्माकम् / [आस्माकीनः / आस्माकम् // ] (31) एकतायां तौतवौ ममश्च / [3 / 1 / 4 / 4 / ] एकत्वे तौ क्रमेण तव मम च / तयोर्डकान्तश्च तयोः / तावकीनम् / मामकीनम् / तावकः / मामकः // ____ (32) कत्रितो ढकञ् / [3 / 1 / 4 / 5 / ] षट्पादिह कत्रिचर्मण्वतीग्रामकुड्याकुडवशौण्डकः / पुष्करपुष्कलोम्भिश्च कुण्डिना नगरीकुलाः / ग्रीवाकुक्षेश्च भूषार्थाशिपु माहिष्मती गणः // 1 // ' कात्रेयकः / कुण्डया कुडव कोण्डेयकः / कुलग्रीवाकुक्षेः / क्रमेण श्वनि भूषणे असौ / कौलेयकः / [ग्रैवेयकः / कौक्षेयकः // ] (33) वृजिमद्रितः कः / [3 / 1 / 4 / 66 / ] शेषैव, न राष्ट्राद् वुञ् / वृजिकः / [मद्रकः // ] (34) देशकाशितो जिठठञ् / [3 / 1 / 4 / 7 / ] देशवाचिकाश्यादेः शेषे जिठठौ स्तो न च्छादि / अस्मिन्नपि वृत्तषट्पात् काशिः सुधामित्रहिरण्यसंवाहगोवासनदैवदत्ताः / सौधावतानो युवराजदासग्रामोपराजाच्युतमोदमानाः // 1 //