________________ 172 पञ्चग्रन्थी व्याकरणम् गौः / प्राणिवृत्तेः किम् ? राङ्कवः कम्बलः / कच्छादिवुञ् तु नृतत्स्थे / राङ्कवको नरः / / (16) ममणा: छमध्यात् / [3 / 1 / 2 / 4 / ] म मण् आ एते स्युः शेपे मध्याच्छश्च / माध्यमः / माध्यमः / युक्तं उचितेऽर्थे अः / मध्यो वैयाकरणो, नातिहीनोत्कृष्टः / मध्यं काष्ठं, नातिहस्वदीर्घम् / मध्या स्त्री / छः / मध्यीयः // (17) मक् / [3 / 1 / 25 / ] मध्यस्थः, मगागमश्च / मध्यमीयः // (18) मित् पृथिव्याः / [3 / 1 / 2 / 6 / ] पृथिव्याः परान्मध्यस्थोऽत्र मक् च मित् सर्वलुक्, श्रुतत्वात् पृथिव्याः / पृथिवीमध्यादागतः मध्यमीयः // (19) चरणेऽण् निवासे / [3 / 1 / 27 / ] तथैव चरणवाच्येऽण् स्यान्न च्छोऽस्य निवास इत्यर्थे / पृथिवीमध्ये निवास एषां मध्यमाः, त्रयो वैशम्यायनशिष्याः // 2 // द्वैप्योऽन्वय्वि ग्रामात् खग्यौ वाहीकेभ्योऽण् नदादेः / दूरादेत्यः थोऽन्तःस्थादेरग्रान्तादेश्चेमन् पश्चात् // 3 / 1 / 3 // विद्युन्माला // (20) द्वैप्योऽन्वय्वि / [3 / 1 / 3 / 1 / ] समीपं चेद् द्वीपो य्वो निपात्यते / द्वैप्यः / अन्वय्वि किम् ? यमुनाद्वीपे जातो द्वैपकों व्यासः / / (21) ग्रामात् खञ्यौ / [3 / 1 / 3 / 2 / ] शेपे स्तः / ग्रामीणः / ग्राम्यः // कत्र्यादौ ढकञ्। ग्रामेयकः // ( 22 ) वाहीकेभ्योऽण् / [3 / 1 / 3 / 3 / ] शेष स्यात् / षट्पाद्वयं, वृत्तमिहादिमार्ये वाहीक गोष्ठी च पटच्चरो तेकी गोमती यक् सकलादितोऽपि / गोत्रादिक्रोऽप्रास्तरतद्वचोऽतो हेमन्तवर्षतु च सन्धिवेला / संवत्सरे पर्वफले त्रयोदश्याद्याश्च सन्ध्याध्वनि पौर्णमासी // 1 // कोपान्तकच्छान्तपरं ज्छ रङ्ककश्मीरशाल्वाः कुरु कर्णवर्णाः / गन्धारकम्बोजविरूपकाश्च द्वीपानुषङ्गोऽजपादसिन्धू / कुलं त्वनूपच्च अमी तु देशे ग्रीवा भवेऽर्थे च मुहूर्तशिक्षा // 2 // संवत्सरोपात्तनिमित्तयज्ञाः न्यायो निरुक्तः पुनरुक्तचर्चे / श्लक्ष्णं तथोत्पादक्रमोत्तरौ च // 3 // विद्या क्षेत्राङ्गवास्तोश्च च्छन्दोतो भाष नाम च / विचितिर्विजितश्चेति निगमोपनिषत्पदः / व्याख्यानर्गयनं चेति उरसा त्वकृतस्तथा // 4 // पलदीपरिखातत्वान् कर्पट्टकलकोटशूरसेनाः स्युः / उदयानो यकृल्लोम कमलिदा चेति बहुकीटम् // 5 / /