________________ तृतीयोऽध्यायः प्रथमः पादः 171 शेषे // 2 // अर्थे चेति विषयसप्तम्या वाच्यानाक्षिपति / एवं सर्वत्र / तेनास्यां पञ्चपद्यां सूत्रवाचिन: षष्ठ्यन्तात् तस्यार्थस्य व्याख्याऽतः / चकारात् तत्रभवोश्चेत्ययोश्च नाण् / यज्ञात् / न च यज्ञस्थोऽत्र भावो नाम याज्ञिकः / नावयज्ञिकः / पाकयज्ञिकः / एवं व्यच् / ऐष्टिकः / पाशुकः / ऋक् / आर्चिकः / ऋत् / ऋदन्तात् / चातुर्होतृकः / क्रतुः / आग्निष्टोमिकः / वाजपेयिक: / राजसूयिकः / यज्ञांशत्वात् क्रतुः स्पष्टार्थम् / एवं नामिकम् / आख्यातिकम् / नामाख्यातिकम् / इत्यादि / असन्तोदात्तत्वार्थम् / ऋषिवाचिनोऽध्यायेष्वेव वाच्येषु / वाशिष्ठिकोऽध्यायः / वैश्वामित्रिकः / अध्याये किम् ? वाशिष्ठी ऋक् / पुरस्तः पुरः परात्, चरणात् / पौरश्चरणिकः / अन्तोदात्तत्वाद् बह्वचः / षात्वणत्विकम् / नातानतिकम् / समासस्येत्यन्तोदात्तः / बह्वचः किम् ? सौपम् / तैङम् / अन्तोदात्तात् किम ? सांहितम् / उदात्तादयो विसर्जनीयवत् प्रसिद्धाः / पुरोडाशः पिष्टः पिण्ड: / पौरोडाशः / ताभ्यां ठण, नाण, बहुलार्थत्वाद् गणानाम् / पौरोडाशिकः / पुरोडाशिकी / पञ्चपात् / / 3 / / भक्ताविति / तद्वत् प्रथमान्तात् सभक्तिः सेव्योऽस्येत्यर्थे / [स्रुघ्नो भक्तिरस्य स्रौघ्नः / ] महाराजात् / तथा देशकालवर्जितात् तदन्याचित्तवाचिनश्च ठक् स्यान्नाण् / माहाराजिक: / आपूपिकः / पायसिकः / साधाविति / तद्वत् तत्र साधुरित्यर्थे कथाद्यच्च पठ्यते ततष्ठक् स्यान्नाण् / कथायां साधुः प्रवीण: काथिकः इत्यादि / अत्र षट्पदी कथाविपश्चाज्जनवादवेणुसङ्ग्रामसङ्घातनिवाससक्तु- / प्रवासमांसौदनवृत्त्यपूपायुर्वेदजल्पसगुडोपवासाः / इक्षुर्जनेवादगणौ वितण्डा गुणो जनोवाद च सङ्ग्रहाद्याः / / 5 / / विपश्चाच्च कथा विकथा / आगते / तद्वत् / शुण्डिकादिवर्जादायस्थात् स्वामिग्राह्यांशोत्पत्तिस्थानात् तत आगत इत्यर्थे ठक् स्यान्नाण् / स्थ लघु / शुल्कशालाया आयातः शौल्कशालिकः / आकरिकः / शुण्डिकादेरणेव / शौण्डिक इत्यादि / अत्रानुष्टुप् शुण्डिक उपदानश्च कृकणस्थण्डिलौ तथा / / उपतीर्थस्तथा भूमि तृणपर्णी गणः स्मृतः // 6 // ऋणादेः शेपे / आणिकः / [आग्रहायणिकः / सांवत्सरिकः / ] आश्वत्थिकोऽपि // 1 // परावराभ्यामधमोत्तमाद् यो बल्झुर्दिपर्देः ट्यणु कापिशीतः / वा प्राणिरङ्कोर्ममणाश्छमध्यान्मग्मित्पृथिव्याश्चरणे निवासे // 3 // 12 // उपजातिः // (13) परावराभ्यामधमोत्तमाद् यः / [3 / 1 / 2 / 2 / ] परादेः परादर्धाच्छेषे य एव स्यात् / पराय॑म् / [अवराय॑म् / अधमाय॑म् / उत्तमाय॑म् // ] (14) बल्ह्युदिपर्देः ट्यणु कापिशीतः / [3 / 1 / 2 / 2 / ] एभ्यः शेषे ट्यणु स्यात् / बा[ल्हा] यनः / [बाल्हायनी / और्दायनः / और्दायनी / पार्दायनः / पार्दायनी / कापिश्यायनः / कापिश्यायनी / ] टि स्त्र्यर्थः / कापिशायनी द्राक्षा / 3 निपातः / / (15) वा प्राणिरङ्कोः / [3 / 1 / 2 / 3 / ] ट्यण् अण् वा स्यात् / राङ्कवायणी, राङ्कवी वा