________________ 170 पञ्चग्रन्थी व्याकरणम् पूर्वेषुकामशमी स्त्री // (8) मद्रादण् स्यात् / [3 / 1 / 18 / ] तथैव, न णः / पौर्वमद्री // (9) राष्ट्रग्रामांशेऽर्धात् / [3 / 1 / 1 / 9 / ] जनपदस्य ग्रामस्य वांशाद् दिशोऽर्धाच्छेषेऽण् / तयोः पूर्वार्धजातादिः / पौर्वार्धः / दाक्षिणार्धः // (10) यः / [ 3 / 1 / 1 / 10 / ] दिशोऽर्धात् तदंशे / पूर्वाय॑म् // (11) अर्धात् / [3 / 1 / 1 / 11 / ] केवलार्थं परत्र व्याप्त्यर्थं च / आय॑म् // (12) ठाण्सप्रजादेः / [3 / 1 / 1 / 12 / ] स्याच्छेषे ठञ् / जातिचतुष्कमत्र साद्यार्धकालाच्छरदस्तु श्राद्धे रोगातपे वा च निशाप्रदोषात् / तड् च श्वसः स्याद् भवतोश्च कन्थो देशात् पुरश्छे तु समानलोकात् // 1 // तत्प्राक्परोक्दमऊर्ध्वदेहोऽध्यात्माधिभूतस्त्वधिदेववर्षे / / यद्यन्तरः पर्यनुग्रामतो नीविजानुकर्णादुपतो भवेऽयम् // 2 // अर्थे च यज्ञद्वयजृगृत्क्रतो माख्याततो ब्राह्मण अध्वराच्य / अध्यायेष्वप॑श्चरणात् पुरस्तोऽन्तो दात्तबह्वजथमाच्च पौरोडाशात् पुरोडाशत एव ठण् स्यात् // 3 // भक्तौ महाराजतोऽदेशकालात् साधौ कथाद्यागत आयस्थानात् / अशुण्डिकादेर्ऋणतोऽग्रहायणीतोऽपि संवत्सरतो गणोऽयम् // 4|| , साद्यर्धम् / अप्राच् अर्धम् / विद्यमानपूर्वपदादर्धात् 1 पौष्कराधिकः / दिगादेश्च / . उत्तराधिकम् / तदंशवृत्तेश्च तयोः / पौर्वाधिकः / तथा यथाकथञ्चित् कालवाचिनः / मासिकम् / सांवत्सरिकम् / कादम्बपुष्यिकम् / वैहिपलालिकम् / शरदः श्राद्धे पितृकार्य एव / शादिकं श्राद्धम् / शारदोऽन्यः / रोगे आतपे वार्थे / वा / शारदिको वा / शारद एवान्यः / वैव / नैशः / प्रादोपिकः / श्वस: ठण् चात्र / तडागमश्च / शौवस्तिकम् / [श्वस्त्यः / श्वस्तनः / ] स्यादित्यतो नित्यम् / भवत इदं भावत्कम् / त्यदादेः छस् / भवदीयम् / शत्रन्तस्य तु भावतम् / कन्थोः / कन्थाया उवर्णान्ताच्च देशवाचिनः / कान्थिकः / वौँ वुञ् वक्ष्यति / ओः / शाबरजम्बुक: / नैषादकर्षुकः / देशात् किम् ? पटोश्छात्राः पाटवाः / पुरश्छे तु पूर्वदेशात् / छे / छविषये एव टण् / आढक जम्बु / नापितवास्तु / प्राक् तु ग्रामौ / तत्र जातादिः / आढकजम्बुकः / [नापितवास्तुक: / ] छ किम् ? माल्ववास्तवः / एवं सामानिक: लौकिक: // 1 // तो प्राक्परो ययो तो तत्प्राक्परौ / समानपर्वपदात / लोकान्ताच्चेत्यर्थे / सामानदैशिकः / ऐहलौकिक: / अतः परं भवेऽर्थे / और्श्वन्दमिकः / [और्ध्वदेहिक: / आध्यात्मिकः / आधिभौतिकः / आधिदैविक: I] वार्षिकम् / मकच्छणे देशाद्यर्थं भवेदत्र श्लोके / आदि अन्तर्यस्य ततोऽन्तः पूर्वात् / गेहस्यान्तर्भवः, आन्तर्गेहिकः / आन्तःपुरिकः / एवं पारिग्रामिकः / ग्रामं सर्वतोभव इत्यर्थः / एवम् औपनीविकः / [औपजानुकः / औपकर्णिकः / ] भवेऽर्थेऽयं श्लोकः, तत्प्रकारजार्थस्य प्राश्लोकार्थत्वात् / अन्ये यदिदे च पूर्वे तु