________________ 168 पञ्चग्रन्थी व्याकरणम् लक्षणाद्यन्तात् / आक्षलक्षणिकः / मातृकल्पिकः / वार्तिकसूत्रिकः / अकल्पादेः किम् . ? काल्पसूत्रः / अतो अणिवाण वेत्यर्थः / पदोत्तरपदिकः / तथा पदकः / शिक्षक इत्यादि गणौ / (88) षष्ठेः पथष्ठट् शततः / [2 / 4 / 11 / 8 / ] षष्ठिशतात् / पथस्तथा / ठडन्तं, वेत्ति [अधीते वा] / षष्ठिपथिकः / [षष्ठिपथिकी / ] शतपथिकः / [शतपथिकी] || (89) लुगुक्तात् / [2 / 4 / 11 / 9 / ] प्रोक्तार्थे योऽणादिस्तदन्ताद् वेत्त्यधीते वेत्त्यर्थे विहितो . . लुक् / पाणिनिना प्रोक्तं पाणिनीयम् / तद् वेत्ति, [अधीते वा] पाणिनीयः / आपिशला स्त्री / असावित्यनुवृत्तेरसौ वा / प्रोक्तार्थे लुक् क्वचित् / अथर्वणा प्रोक्तः, अथर्ववेदः / वशिष्ठोऽनुवाक: // 11 // सूत्रादपि संख्याकादुद्धतमत्रामत्रान्नियमे शेते स्थण्डिलतो भक्ष्यम् / संस्कृतमुख्यं शूल्यं ठणु दध्नो वोदश्वितः क्षीराड्ढक् पादः // 2 / 4 / 12 // पुष्पविचित्रा // (90) सूत्रादपि संख्याकात् / [2 / 4 / 12 / 1 / ] संख्याया यो विहितः कस्तदन्तात् सूत्रवाचिनः, तद् वेत्त्यर्थे विहितो लुक् स्यात् / अष्टावध्यायाः परिमाणमस्य, अष्टकं सूत्रम् / तद् विदन्ति [अधीयते वा] अष्टकाः पाणिनीयाः / दशकाः वैयाघ्रपदीयाः / संख्या किम् ?. कालापकाः / कात् किम ? चातुष्टयाः / अप्रोक्ताच्च // (91) उद्धृतमत्रामत्रात् / [2 / 4 / 12 / 2 / ] अत्रेति सप्तम्यन्तात् पात्रवाचिनः, उद्धृतं भुक्तोच्छिष्टमित्यर्थे यथाविध्यणादिः स्यात् / शरावेषूद्धृत ओदनः, शारावः / कार्परः / अमत्रात् किम् ? पाणावृद्धृतः // (92) नियमे शेते स्थण्डिलतः / [ 2 / 4 / 12 / 3 / ] नियमे व्रतेऽर्थे / तथा स्थण्डिले शेते / अण् / स्थाण्डिलो भिक्षुः / अव्रते वाक्यम् // (93) भक्ष्यं संस्कृतम् / [ 2 / 4 / 12 / 4 / ] ड्यन्तात् संस्कृतं, सत उत्कर्षाधानम्, इत्यर्थे यथाविध्यणादिः स्यात्, तत् संस्कृतं भक्ष्यं चेत् / भ्राष्ट्रे संस्कृता भ्राष्टा धानाः / पात्राः / अपूपाः / भक्ष्यं किम् ? फलके संस्कृता मालाः // (94) ऊख्यं शूल्यम् / [ 2 / 4 / 12 / 5 / ] तयोः संस्कृते भक्ष्यमित्यर्थे स्तः / पिठरे शूले इव संस्कृतं पिठरः शूल्यम् / मयूरव्यंसकादित्वात् समासः // (95) ठणु दनः / [2 / 4 / 12 / 6 / ] तथा / दाधिकम् / 3 निपातः / / (96) वोदश्वितः / [ 2 / 4 / 12 / 7 / ] तथा ठण् वा / औदश्वित्कम् / औदश्वितम् // (97) क्षीरात् ढक् / [ 2 / 4 / 12 / 8 / ] तथा / क्षरेयी यवागूः // 12 / / पादोऽष्टमोद्वितीयोऽध्यायः [समाप्तः] // [इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे द्वितीयाध्याये चतुर्थः, आदितो वाऽष्टमः, पादः // ]