________________ द्वितीयोऽध्यायः चतुर्थः पादः . चिरन्तनऋषिचिना प्रोक्तं विदन्ति / शाट्यायनिनः / ऐतरेयिणः / ताण्डविनः / भाल्लविनः / पुराणात् किम् ? याज्ञवल्कानि ब्राह्मणानि / सुलभयानि च सौलभानि / छ इञोऽण् च न स्यात् / अत एव तुङ्गपुराणः पुरातनश्चात् / तथा शिलालिपाराशर्याभ्यां प्रोक्तं नटसूत्रं भिक्षुसूत्रं च / चकाराद् वेदविद् विदन्ति / णिन् यथासंख्ये न / शैलालिनो नटाः / पाराशरिणो भिक्षवः / वेदवदभावाच्चरणात् संघाद् यकञ् / शैलालिनामिदं शैलालिकम् / पाराशरकम् / तथाऽन्तादीत्युक्तिप्राधान्यादन्तं भिक्षुसूत्रम्, आदि नटसूत्रं, यथाक्रमं कर्मन्दकृशाश्वाभ्यां प्रोक्तं, वेदवद् विदन्ति इत्यर्थे / णिन् अणित् स्याद् इनित्यर्थः / छन्दोत्यर्थं वा तायः / कर्मन्दिनो भिक्षवः / कृशाश्वनो नटाः / तथैव कामन्दकम् / तथाऽनुब्राह्मणं वेत्त्यधीते वा एतावन्मात्रे इन्निपात्यते / अनुब्राह्मणी गाथा पट्पदी / (83) न / [ 2 / 4 / 11 / 3 / ] खण्डिकादिभ्यो वेदादेरन्यत्र तेन प्रोक्तमित्यर्थमात्रे प्रत्ययो न स्यात् / खण्डिकया प्रोक्ताः श्लोका वाक्यमेव // (84) ऋषेश्च कल्पः / [ 2 / 4 / 11 / 4 / ] विवक्षितानुकर्षश्चकारोऽत्र / पुराणऋषिवाचिनो टन्तिात् प्रोक्तः कल्प इत्यर्थे णिन् स्यात् / पिङ्गेन प्रोक्तः पैङ्गी कल्पः / आरुणपराजी / प्रोक्ताल्लुगिति तदध्येतापि पैङ्गी / वेत्त्यधीत इति निवृत्त्यर्थं कल्प इति // (85) अणथर्वणोऽसौ / [ 2 / 4 / 11 / 5 / ] अथर्वणा प्रोक्तोऽसौ वेद इत्यण् / आथर्वणो वेदः || : (86) तत् / [ 2 / 4 / 11 / 6 / ] तदिति द्वितीयान्तात् तं वेत्त्यधीते वेत्त्यर्थे यथाविध्यणादिः स्यात् / छन्दो वेत्ति. [अधिते वा] छान्दसः / नैमित्तिः / वैयाकरणः // ... (87) ठण् क्रतूक्थादिपदादितोऽकः / [ 2 / 4 / 11 / 7 / ] तथैव ठण् स्यात् / क्रतूक्थादेः / पदादेरकः / क्रतोः अग्निष्टोमाद्यर्थं शास्त्रं च तद् वेत्ति, अग्निष्टोमिकः / वाजपेयिकः / राजसूयिकः / वृत्ते आर्या षट्पाद् द्वयोश्चेति उक्थो निरुक्तो द्विपदी पुराणश्चाथर्वणो न्यासगुणानुकल्पाः / संघातलक्ष्येतरसंहिताः स्युर्योतिर्यजुष्पार्पदयज्ञचर्चाः // 1 // लोकायतन्यायपदक्रमाः स्युः श्लक्ष्णोऽनुसूसंग्रहवृत्तयोऽपि / हेमन्तवर्षाशिशिरं वसन्तो गुणेतिहासानुगुणाः शरच्च // 2 // आयुर्वेदानुपदौ चरमप्रथमानङ्गधर्मत्रिक्षत्रादि / विद्या स्यादाख्यानाख्यायिकावाची // 3 // लुक् सर्वद्विगुसादेरकल्पादेश्च लक्षणकल्पसूत्रान्ततोऽतो णित् / पदोत्तरः पदाद् गणः पदशिक्षा च मीमांसाक्रमसामन्हला गणाः / / 4 / / सामलक्षणे औक्थिक्येऽत्रोक्थः, तं वेत्ति [अधीते वा] औक्थिकः / औक्थिक्यं वेत्तीत्यर्थः / न चातः प्रत्ययोऽनभिधानात् / पाठान्तोक्ताल्लुक् / आथर्वणिकः // 1 // अनङ्गादि विद्या / वायसविद्यिकः / अङ्गादेः अण् / आङ्गविद्यः / [धार्मविद्यः / त्रैविद्यः / क्षात्रविद्यः / ] आख्यानवाचिनः / यावत्क्रीतिकः / प्रेयङ्गविकः / आख्यायिकायाः वासवदत्तिकः / सौमनोत्तरिक: // 3 // लुक् स्यादण् सर्वद्विगुसादेः पदात् / सर्ववेदः / पञ्चव्याकरणः / ससंग्रहः / अकल्पादेः