________________ पञ्चग्रन्थी व्याकरणम आग्नेयम् / आपिशलम् / पाणिनीयम् // (77) वेदं परिवेत्त्यधीते / [ 2 / 4 / 10 / 4 / ] न्तिात् प्रोक्तं वेदं वेत्त्यधीते वेत्यर्थे यथाविध्यणादिपरे घादि यश्चात् / पिप्पलादेन प्रोक्तं वेदं वेत्त्यधीते वा पैप्पलादः / मैत्रायणीयः / चारायणीयः / प्रोक्ते वेदे वेदिव्यध्येत्रोरेवानेन / प्रोक्ते वेदे किम् ? चरकेण प्रोकाः श्लोकाः. चारकाः / तान् विदन्ति चारकाः // (78) छण् खण्डिकोखाद् वरतन्तुतैत्तिरेः / [2 / 4 / 10 / 5 / ] खण्डिकादेस्तथा छण् स्यात् / खाण्डिकीयः / [औखीयः / वारतन्तवीयः / तैत्तिरीयः] || (79) छागलेयी च / [2 / 4 / 10 / 6 / ] तथैव छगलिनो ढिनुण निपात्यते // (80) चरकात् कठाल्लुक् / [ 2 / 4 / 10 / 7 / ] आभ्यां तर्थिकाणिनोर्लुक् स्यात् / चरकाः / कटाः / चरको वैशम्पायनभवाः // 10 // कलापितोऽण्णिन्निति शौनकादेर्नफैश्च कल्पोऽप्यणथर्वणोऽसौ / तट्ठण तूक्यादिपदादितोऽकः षष्ठेः पथष्ठट् शततो लुगुक्तात् // 2 / 4 / 11 // वृत्तम् // (81) कलापितोऽण् / [ 2 / 4 / 11 / 1 / ] भ्यसस्तस् / एभ्यस्तथाऽण् स्यात् / कालापाः / मौदाः / पैप्पलादाः / अत एवान्येषाम् / अत्र वृत्तम् -- कलापिमोदाविह पिप्पलादः सब्रह्मचारी कुथुमिन् शिखण्डिन् / . सुपर्वणः सूकरसद्म लाङ्गलिन् जाजलिन् तैत्तिलिपीठसपिन् // 1 // एषां नलोपश्च / सामाण्याणिगहादि छन बाधिते 'कालापिनेऽणि शौनकादीनाम्' सूत्रम् // (82) णिन्निति शौनकादेः / [ 2 / 4 / 11 / 2 / ] एभ्यस्तथा णिन् स्यात् / इति नानाविध्यर्थः / तथेह आर्यादिवृत्तं पट्पात् शौनकवाजसनेयौ शाङ्गुरवो रज्जुकण्ठकठशाठौ / खाडायनसाम्पेयौ स्कन्दस्कम्भौ च वाष्पेयः // 1 // स्याद् रज्जुभारः पुरुषांसकश्च कपायतालौ च / चकार एके वयो हरिद्रूलपतुम्बुरु स्युः / श्यामायनः स्यात् कमलोऽपा अलम्बिः // 2 // फुलिङ्गताण्डारुणयो ऋचाभः कल्पं वृषेः काश्यपकौशिकाच्च / स्याद् ब्राह्मणं चात्र पुराणतो नटभिक्षुसूत्रं च शिलालिपारा / शर्याच्च कर्मन्दकृशाश्वतो णिन् अन्ताद्यनु ब्राह्मणिनोऽपि गाथा // 3 // शौनकिनः कठाल्लुक चाञतो द्वाभ्यां विधिः / काठशाठिनः / तलवकारौ एके मन्यन्ते / अन्ये तु देवदर्शम् / वेदे किम् ? शौनकीया शिक्षा / त्रय इति कालापिकाः, हारिद्राविणः, छगलिनो, दिनुण निपातितः / वैशम्पायनशिष्याः / त्रय उदीच्याः श्यामायनिनः / कठकलापिभ्यां लुगणावुक्तौ / त्रयः प्राच्याः कामलिनः / त्रयो माध्यमाः ताण्डिनः / तथा नानारूपत्वाद् विधेः काश्यपकौशिकाभ्याम् ऋषिभ्यां प्रोक्तं वेदं च कलां च विदन्ति / काश्यपिनः / कौशिकिनः / ब एव किम् ? काश्यपीय कल्पः / कल्पं किम् ? काश्यपीया पुराणसंहिता / तथा ब्राह्मणं पुराणेन