________________ द्वितीयोऽध्यायः चतुर्थः पादः 165 (65) अकनीलपीतात् / [2 / 4 / 8 / 6 / ] आभ्यामको स्तः / [नील्या रक्तं] नीलं [वस्त्रम् / पीतेन रक्तं] पीतकम् // 8 // ठण कर्दमाद् वा शकलाच्च रोचनाल्लाक्षाद्रथश्चावृतपाण्डुकम्बलात् / इन् सेन्दुभात् काल छ चार्थतोऽभिड्डित् साम दृष्टं च पितोऽङ्कवत्तथा // 2 / 4 / 9 // वृत्तम् // (66) ठण् कर्दमाद् वा शकलाच्च / [2 / 4 / 9 / 1 / ] तथाभ्यां ठण् वा, अण् च स्यात् / कार्दमिकम् / [कार्दमम् / शाकलिकम् / शाकलम् / ] वस्त्रम् // ___(67) रोचनाल्लाक्षात् / [ 2 / 4 / 9 / 2 / ] तथा ठण् नित्यं, पार्थक्यात् / रोचनिकम् / [लाक्षिकम्] वस्त्रम् // (68) रथश्चावृत / [ 2 / 4 / 9 / 3 / ] असुबन्तः / न्तिात् परिवृतो रथः इत्यर्थे यथाविध्यणादिः स्यात् / वस्त्रैः परिवृतो रथः, वास्त्रः / चार्मणः / आवृतः सर्वावयवेष्टितः / तेन नेह / छात्रैः परिवृतो रथः / रथः किम् ? वस्त्रैः परिवृतो देहः / / (69) पाण्डुकम्बलाद् इन् / [ 2 / 4 / 9 / 4 / ] तथा पाण्डुकम्बली रथः / मत्वर्थीयेन सिद्धे नाण् // ____ (70) सेन्दुभात् काल / [2 / 4 / 9 / 5 / ] असुबन्तः / इन्दुयुक्तनक्षत्रात् र्टान्तात् तेन युक्तः काल इत्यर्थे यथाविध्यणादिः स्यात् / पुष्येणेन्दुयुक्तेन युक्तः कालः, पौषी रात्रिः / माघमहः / सेन्दुः किम् ? कृत्तिकाभिर्युक्तो मुहूर्तः / भात् किम् ? चन्द्रमसा युक्ता रात्रिः / कालः किम् ? पुष्येण युक्तश्चन्द्रमाः / उत्तरत्राभिद्वचनादिह भेद एव प्रत्ययः / (71) छ चार्थतोऽभित् / [2 / 4 / 9 / 6 / ] तथा सेन्दुभद्वन्द्वाच्छ स्यादभेदश्चेल्लुप्तचकाराद् भेदश्च विवक्ष्यते / ताभिर्युक्ता राधानुराधीया रात्रिः / पुष्यपुनर्वसुवीयम् अहः / अभेदे, अद्य राधानुराधीयम् // (72) डित् साम दृष्टं च / [ 2 / 4 / 9 / 7 / ] र्यन्ताद् दृष्टं सामेत्यर्थे यथाविध्यणादिः स्यात् / चात् डिच्चाडिच्च / कुञ्चेन दृष्टं साम, क्रौञ्चम् / बार्हस्पत्यम् / पाशुपतम् / औशनसम् / [डित्] औशनम् // (73) पितोऽङ्कवत् तथा / [2 / 4 / 9 / 8 / ] अपत्यान्ताद् यतो येऽङ्के उक्तास्ततस्तेन दृष्टं सामेत्यर्थे स्युः / औपगवेन दृष्टं साम, औपगवकम् / गार्गम् / दैवम् // 9 // स्याद् वामदेव्यं प्रथमेऽण् कुमार्याः प्रोक्तं च वेदं परिवेत्त्यधीते / छण् खण्डिकोखाद् वरतन्तुतित्तिरेश्छागलेयी चरकात् कठाल्लुक् // 2 / 4 / 10 // इन्द्रवज्रा // . (74) स्याद् वामदेव्यम् / [ 2 / 4 / 10 / 1 / ] तथाऽऽयान्तं साम // (75) प्रथमेऽण् कुमार्याः / [2 / 4 / 10 / 2 / ] प्रथमे अपूर्वेऽण् स्यात् कुमार्याः / अपूर्वपति कुमारी पतिरुपपन्नः कौमारः पतिः / अपूर्वपतिर्वा कुमारी पतिमुपपन्ना कौमारी भार्या / कुमारू भवः कौमारः [पतिः] तद्भार्या कौमारीति / न तदर्थः प्रतीयते // (76) प्रोक्तं च / [2 / 4 / 10 / 3 / ] Bन्तात् प्रोक्तमित्यर्थे यथाविध्यणादि ‘पाराराष्ट्राद् यः' [पा. अ. 4 / 2 / 93 / ] इत्यादि च शैषिक: स्यात् / उशनसा प्रोक्तम्, औशनसम् / बार्हस्पत्यम् /