________________ 164 पञ्चग्रन्थी व्याकरणम् स्यात् / अपान्नपाद् देवताऽस्य अपान्ननियम् / [अपान्नप्त्रीयम् / ] अपोनपातस्तथा / अपोन्नत्रियम् / अपोन्नतीयम् // (56) सोमात् ट्ण्य [ 2 / 4 / 7 / 4 / ] तथा / सौम्यः / सौमी ऋक् / टिड्यर्थः।। (57) कालाद् भववत् / [ 2 / 4 / 7 / 5 / ] कालवाचिनो भवार्थे, एते साऽस्य देवतेत्यर्थे स्युः / मासोऽस्य देवता मासिकम् / सांवत्सरिकम् / वासन्तकम् / प्रावृषेण्यम् // (58) महाराजा?ण तथा प्रोष्ठपदात् / [ 2 / 4 / 7 / 6 / ] माहाराजिकम् / [प्रौष्ठपदिकम् / ] तथेति देवता अनुवृत्यर्थं नातोऽतः // (59) तदस्मिन् / 2 / 477 / ] तदिति प्रथमान्तात्, अस्मिन् वर्तत इत्यर्थे ठण् स्यात् / पुमस्तद्ग्रहणं नियतविषयार्थम् / नवयज्ञोऽत्र वर्तते नावयज्ञिकः कालः / पाकयज्ञिकः / यद्वाऽण् प्रकृत एव / पूर्णमासोऽस्यां वर्तते पौर्णमासी तिथिः // 7 // योद्धनिमित्ताद् विशरे प्रगाथे प्राक् छंदसो भावघअन्ततो ञः / स्याद् वर्ततेऽस्यां श्मणायुधाद् द्रा रक्तं च रागाद् अकनीलपीतात् // 2 // 48 // इन्द्रवज्रा // (60) योद्धनिमित्ताद् विशरे / [2 / 4 / 8 / 1 / ] योद्धनिमित्तवाचिप्रथमान्तात् षष्ठ्यर्थे संग्रामे वाच्ये यथाविध्यणादिः स्युः / अहिमाला योद्धारोऽस्य संग्रामस्य, आहिमालः। स्यान्दनाश्वः / स्त्रैणं युद्धम् / सुभद्राऽस्य निमितं सौभद्रः / गौरमित्रः आभ्यां किम् ? स द्रष्टाऽस्य / विशरे किम् ? सा . निमित्तं वैरस्यम् // (61) प्रगाथे प्राक्छन्दसः / [2 / 4 / 8 / 2 / ] आदिभूताच्छन्दोनाम्नः प्रथमान्ता षष्ठे प्रगाथार्थे यथाविध्यणादिः स्यात् / पङ्क्तिरादिरस्य, पाङ्क्तः [प्रगाथः] / त्रैष्टुभः / आनुष्टुभः / जागतः / प्रगाथे किम ? पङ्क्तिरादिरस्यानुवाकस्य / प्राक् किम् ? अनुष्टुप् मध्येऽस्य / च्छन्दः किम् ? उदितं प्रागस्य // (62) भावघञन्ततो ञः स्याद् वर्ततेऽस्याम् / [2 / 4 / 8 / 3 / ] भावघजन्तात् प्रथमान्तात् ञः स्याद्, अस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे वर्तत इत्यर्थे / दण्डपातोऽस्यां दाण्डपाता तिथिः / आश्ववाहा / मौसलपाता / भौमी / भाव किम् ? प्रासादोऽस्यां वर्तते / घञ् किम् ? दण्डपतनमस्याम् // (63) रमणायुधात् / [2 / 4 / 8 / 4 / ] क्रीडासमर्थे आयुधवाचि प्रथमान्तात् ञः स्यात् / दण्ड: प्रहरणमस्यां क्रीडायां, दाण्डा / मौष्टा / पादा / आयुधात् किम् ? जलसेचनमस्याम् / क्रीडायां किम् ? खड्गः प्रहरणमस्यां [सेनायाम्] // (64) द्रा रक्तं च रागात् / [2 / 4 / 8 / 5 / ] द्रेति तृतीयान्ताद् रागवाचिनो रक्तमित्यर्थे यथाविध्यणादिः स्यात् / कषायेण रक्तः काषायः पटः / कौसुम्भः / रागात् किम् ? काषायौ गर्दभस्य कर्णौ / हारिद्रौ कुक्कुटस्य पादाविति / उपमानात् / वर्णान्तरोत्पादो रञ्जेरर्थः //