________________ द्वितीयोऽध्यायः चतुर्थः पादः 163 रमणीयः / -4 खलतिकं वनानि रमणीयानि / 4 वृत्तौ लिङ्गं वचोऽस्पष्टमिति / पञ्चालमथुरे / शर्करावत् / ततो लुडा नायः, पाठसामर्थ्यात् // 28 // शर्करादेः शार्करो वा / तथाऽर्कारीहणबल्वज - मुनिस्थलादिपाठात् / वुकठण्छणण्लुगः स्युः / एवं पङ्पाणि, शिरीषाद्यनेकत्र पाठात् तद्रूपम् / [शार्करिकम् / शर्करकम् / शर्करिकम् / शार्करीयम् / शार्करम् / शर्करा / ] सर्वेऽप्याकृतिगणाः // 29 // (47) साऽस्य राका / [ 2 / 4 / 6 / 4 / ] नाम्न्येव, सेति, प्रथमान्तात्, अस्येति षष्ठ्यर्थे, यथाविध्यणादयः स्युः, यत् तत् प्रथमान्तं, राका पौर्णमासी चेत् स्यात् / पुष्येण युक्ता पौषी / साऽस्य र्णमासी पापा मासोऽर्धमासः संवत्सरो वा / एषा तदन्तानां नाम / एवं माघः / वैशाखः // (48) चैत्र्यादितष्ठक् / [ 2 / 4 / 6 / 5 / ] तथैव नाम्नि बहुलमिति गणेऽण् वा / चैत्र्याद्यत्र चैत्री श्रवणा कार्तिक्यपि / फाल्गुन्या वाऽऽग्रहायण्यश्वत्थत एव / चैत्रिकः, चैत्रो वा मासः / [श्रावणिकः, श्रावणो वा / कार्तिकिकः, कातिको वा / फाल्गुनिकः, फाल्गुनो वा / ] एवं द्वाभ्यां नित्यम् / आग्रहायणिकः / [अश्वत्थिकः / ] अ लघुः / अत एव श्रवणाश्वत्थाभ्यामणो लुग् नाम्नि / / (49) कय / [2 / 4 / 6 / 6 / ] को ब्रह्मा देवता चेद् अस्यत्यर्थे कय निपात्यते / इत् स्यात् / कायं हविः // (50) देवता चेत् / [ 2 / 467 / ] साऽस्य देवतेत्यर्थे यथाविध्यणादयः स्युः / इन्द्रो देवताऽस्य ऐन्द्रं हविः / द्वीन्द्रं गव्यम् / पाशुपतम् / आदित्यम् / शैवो मन्त्रः // .. (51) मरुद्भुतुभ्यः छयकौ / [2 / 4 / 6 / 2 / ] अत्रार्यागीतिः ऋतुवायू पित्रुषसौ द्यावापृथिवी मरुत्वदग्नीषोमाः / वास्तोप्पतिः गृहमे शुनासीरतार्णबिन्दवाद्यत्र // 1 // .. अत्र मरुत्वदादि शुनासीरच्पर्यन्तो मनु आदि शब्दात् तार्णबिन्दवपैङ्गाक्षीपुत्रादेश्च तथा छ: ग्यात् / ऋत्वादेः [पृथिवी] पर्यन्ताच्च यक् / मरुत्वान्निन्द्रः देवताऽस्य मरुत्वतीयः / यावत् ताणविन्दवीयः / पैङ्गाक्षीपुत्रीयः / तथा ऋतव्यः यावत् / शुनो वायुः, सीर आदित्यः, तो देवतेऽस्य शुनासीर्य // (52) घ शुक्रात् / [ 2 / 4 / 6 / 9 / ] तथा / शुक्रियः // 6 // छो वा महेन्द्राच्छतरुद्रतस्तावपान्नपादात् तृजपोन्नपातः / सोमाटण्यकालाद्भववान्महाराजा?ण तथा प्रोष्ठपदात् तदस्मिन् // 2 / 47 // उपजातिः / (53) छो वा महेन्द्रात् [ 2 / 4 / 7 / 1 / ] तथा घो वाऽण च / महेन्द्रीयम, महेन्द्रियम्, माहन्द्रं हविः / . . (54) शतरुद्रतस्तौ / [ 2 / 4 / 7 / 2 / ] घच्छौ तथा स्तः / शतरुद्रियम् / [शतरुद्रीयम्] || (55) अपान्नपादात्तृच् [ अपोन्नपातः / 2 / 4 / 7 / 3 / ] तौ स्तः / योऽस्यात् तृजस्य