________________ 162 पञ्चग्रन्थी व्याकरणम् मुनिस्थलदशग्रामौ शर्कराश्वत्थशाल्मली / कुमुदं गोमठः कूटः मधुकर्णः शिरीषो ठक् // 27 // वरणाखलतिगोदाः शृङ्गी शाल्मली गया च तक्षशिला / कटुकबदरीशिरीषाः उज्जयिनी जनपदा काञ्ची // 28 / / आलिङ्ग्यायन पर्णी स्यात् शफण्डी मथुरोरशा / नाना स्याज्जनपदादौ शर्करा वा गणाल्लुक् च // 29 / / 'यरौ बलाश्मादित आर्ययाहुः' इत्यादिभिश्चतुभिर्वृत्तैः क्रमेण गणानां छंद:संख्या स्वे स्वे च प्रत्ययाः व्याख्याताः / पुनर्गणान्तेषु वृदादिः प्रत्ययोक्तिश्च स्पष्टार्थम् / तत् क्रमेणोदाहियते // बलेन निर्वृत्ता बल्या तुल्या अश्मानोऽत्र देशे सन्ति, अश्मरः / ऊषरः // 7 // यकृते सांकाश्यकाश्मर्ये // 8 // एवं सौतङ्गमी नगरी // 9 // प्रेक्षा अत्र देशे सन्ति, प्रेक्षी / फलंङ्क: / फलक इत्यर्थः / ध्रुवका / केचिद् ध्रुवका इति वदन्ति / एवं तृणशः // 11 // र्यकृति. आरीहणकम् / भस्त्रादेः वृञ् / तदन्ता अत्र लाघवार्थमित्थम् / भ्रास्त्रायणः / अतो वृक् / भ्रास्त्रायणकम् / आकृतिगणत्वात् / खण्डुवीरणदलतृसाम्परायणरायस्पोष इत्यादयोऽत्र द्रष्टव्याः // 12 // तदत्रास्ति / बल्वजिकम् // 14 // एवं काशिलम् // 15 // ऋश्यकः / न्यग्रोधाद् 3 निपातः / नेर्धानबन्धौ निधानिबन्ध इत्यर्थः // 16 / / फक्कृते पाक्षायणम् / पथिन् पथश्च स्यात् // 17 // तदत्रास्ति [कक्] / वाराहकम् / भग्नवेर्जग्धदग्धावपि / विभग्नः / [विजग्धः / विदग्धः] // 18 // फिक्कृते कार्णायनिः // 19 // एवं साखेयः / दत्तः। केवलं वायुवासवाभ्यां च / वायुदत्तः / [वासवदत्तः] / वृदकरणात् समृलाद्याऽत्र // 20 // अर्को, अर्कीयः // 21 // नडादीनां कगागमश्च / नडकीयो देश इत्यादि / अदन्तनलोपौ कुञ्चातक्ष्णोः कुञ्चकीयः / तक्षकीयः // 23 // धूमोऽत्रास्ति देशे, धीमीयः / कृशाश्वेन कृतं, काश्विीयम् // 24 / / इक्षुमान् देशः / विसवान् // 25 / / अमुग्नद्यां चेति नद्यामभिधेयां मतुप् / यथायोगं देशे नाम्नि / उदुम्बरा अत्र सन्ति, उदुम्बरावती / मशकावती / पुष्कलावती / इक्षुमती / अमुक् किम् ? सुवास्त्वादि कजन्तः सव्रततोऽणेव / सौवास्तवी [नदी], तस्याकृतिगणत्वात् / भागीरथी, भैमरथीत्यादि / वेतसान्मतुप् डित् / वेतस्वान् / नडवान् / कुमुद्वान् / महिष्मान् नाम देशः // 26 // तदत्रास्ते / मौनस्थलिकः / आकृतित्वाद् रथकारादि // 27 // वरणाश्चातुर्थिकस्य लुक् स्यात् / इष्टवच्चेष्टम् / चात् फलादेरिव / लिङ्गं वचः प्रागिव, तद्विशेषणानां चाजातेः [पा. अ. 1 / 2 / 52 / ] / वरणानामदूरभवं नगरं, वरणाः / नगरं ग्रामो वा / खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि / अत्र वचः प्राग्वत् / एवं गोदौ ग्रामः, इत्यादि नानादि बहुलं जनपदादावभिधेये देशे नाम्नि यश्चातुरथिकः सुभुगिभूवन् ग्रामसमुदायो जनपदः / पञ्चालानां निवासो जनपदः पञ्चालाः जनपदः / कुरवः / मत्स्याः / अङ्गाः / वङ्गाः / सुराः / पुण्ड्राः / नाना किम् ? उदुम्बराः सन्त्यत्र, औदुम्बरो जनपदः / वैदिशः / अनाम त्वाह / तद्विशेषणानां लिङ्गं वचस्तद्वदजातेः. जातिवर्जानां. जातिविशेषणवर्जानां वा / पञ्चालाः रमणीयाः, बबन्नाः, सम्पन्नक्षीरतमाः, बहुनाल्पफलाः / गोदा रमणीयो, [बबन्नौ, सम्पन्नक्षीरतमौ, बहुनाल्पफलौ] / अजातेः किम् ? वरणा नगरं ग्रामो वा / गादी ग्रामः / यद् वा पञ्चाला: जनपदो रमणीयः, [बह्वन्न, सम्पन्नक्षीरतमः, बहुनाल्पफलः] / गादौ ग्रामा