________________ पञ्चग्रन्थी व्याकरणम् आकृतित्वान्नखरजनीत्यादि / श्वेतार्जुनाभ्यां पाकी / श्वेतपाकी / अर्जुनपाकी / लिङ्गं वचः प्रागिव पुष्पमूले फले च अणादिलुकि / मल्लिकायाः पुष्पाणि मल्लिका / नवमल्लिका / जातिः / विदार्यमूलं विदारी / अंशुमती / बृहती / प्लक्षाद्यणोऽन्यस्यैव / पाटलानि पुष्पाणि / शाल्वानि मूलानि / फले / अतस्याः फलानि अतसी / तत्पाकशुषाम् / फलपाकनिमित्तः शोषो येषाम् / लिङ्ग वचः प्रागिव / व्रीहयः / पचाः / माषाः / मुद्गाः / तिलाः / नबिष्टम् / क्वचिदणादि लुकि, नपुंसक त्वं पुष्पादिसमानाधिकरण्यम् / कदम्बं पुष्पम् / अशोक म् / करवीरम् / पुष्पाद्यभिधेयेऽणाद्युत्पत्तौ नपुंसकत्वमस्त्रीत्वादिविधानं नानाविधिज्ञापनार्थम् // (39) राष्ट्रं च / [2 / 4 / 5 / 7 / ] तस्य राष्ट्रं जनपदो विषय इत्यर्थे यथाविश अणादयः म्युः / शिबीनां विषयो जलपदः शैबः / औदुम्बरः // (40) राजन्यकाणे पदे वादितो वुविधौ भक्त / [2 / 4 / 5 / 8 / ] तस्य राष्ट्रमित्यर्थे एभ्यः क्रमेण वुविधभक्ताः स्युः / त्रिषु वृत्तमार्या आर्योये घट्पात् राजन्यदैवायन अर्जुनायनः बाभव्यदाक्षायणदाक्षिसम्प्रियाः / वैकर्णशैलूषविराटमानवाः स्यादात्मकामेय उदुम्बरस्तथा // 1 // शालङ्कायनतैतिलबैल्ववनायनाम्बरीपपुत्राः स्युः / ऊर्णादिगर्तनाभौ वसाति जालन्धरायण वृत् // 2 // काणेयः शैकयतः भौरिकिविलिजिकि चौपयतामस्मिन् / चैकयतश्चोपयतो भौरिक्याद्या गणे ज्ञेयाः // 3 // देवपुकारिनडतुण्डशौण्डिशायण्डसौवीरशयाण्डमस्मिन् / सारस्यद्व्याक्षेः खडशूद्रदाक्षेस्त्र्याक्षौलजौलाद् दशमित्रतः पश् / चन्द्रायणा माणवधेनवौ स्तः विश्वाच्छपां डिस्त्विति षट्पदीयम् // 4 // राजन्यक: ऊर्णादिगर्तनाभौ / त्रिगतः / ऊर्णाभः / वृदन्तः / कालेयविधिगणः / देवभकः / एपकारिभक्तः / सारस्यादिः पश्यदन्ता अत्र / सौरस्यायनः / विश्वात माणवधनवी / वैश्वमाणवः / [वैश्वधेनवः] // (41) देशेऽभिधाने निवासेऽप्यदौरः / [2 / 4 / 5 / 9 / ] तस्य निवासाऽ दूरभवो वेत्यर्थयोर्यथाविध्यणादिः स्याद् देशविषये नाम्नि गम्यमाने / निवसन्त्यस्मिन् निवासः / ऋजुनावानां निवासः आर्जुनावः / शैबः / औपुष्टः / विदिशाया अदूरभवं वैदिशं नगरम् / वैहिमतम् // (42) कृतौ र्टः / [ 2 / 4 / 5 / 10 / ] टा च उपचरितौ तृतीयासप्तम्यौ तृतीयान्तात् कृतो निवृत्त इत्यर्थे देश नाम्नि यथाविध्यणादि स्युः / सहस्रेण साहस्री परिखा / कुशाम्बन कृता कौशाम्बी नगरी / हेतौ कर्तरि करणे वा यथायोगं डा // (43) अस्ति तत् / [2 / 4 / 5 / 11 / ] सप्तम्यत्र सम्बध्यते / तदिति प्रथमान्ता च सप्तम्यर्थ देशे नाम्नि यथाविध्यणादिः स्यात् तदस्ति चेत् / उदुम्बरा अत्र सन्ति औदुम्बरो देशः / पार्वतः /