________________ द्वितीयोऽध्यायः चतुर्थः पादः 157 (36) अतोऽञ् मयड् वा त्वनाच्छादभक्ष्ये / [ 2 / 4 / 5 / 4 / ] तयोर्यथाविधि मयड् वा स्यात् / आश्मनः / आश्ममयः / अनाच्छादनभक्ष्ये किम् ? कार्पासः आच्छादः / मौद्गः सूपः / अतोऽञ् कर्तव्यः / य / मयडन्तेभ्यः पुनर्विकारांशयोरञ् स्यात् / ततोऽपि जित्त्वात् / द्रुवयस्य द्रौवयम् / तस्यापि द्रौवयम् / तथा मृत्तिकामयस्य मात्तिकमयम् / तस्यापि मात्तिकमयम् / तथा बैल्वस्तम्भः / तद्विकारो बैल्वमयो यूपः / तद्विकारो बैल्वमयं भस्म / नाण्मयटौ अविकारार्थादपि / गोमयम् / तस्यापि गोमयम् / अतोऽञ् / भावे मयटो मयः स्यादनिष्टः / तथा सीसादेरजं विधाय जितोऽविधानाद् अणो अणको न स्तः / ततोऽणं न विकारे मयटा भाव्यम् / तदन्तविकारे मयडनिष्टेरण् स्यादणोऽणे / अञो निषेधात् / पुनरनिष्टो मयट् स्यादत एवाऽजो नायम् // (37) शरादेः / [ 2 / 4 / 5 / 5 / ] तयोनित्यं मयट् / अनोपजाति: - शरकुटीबल्वजसोमदर्भाः कोपान्तजन्तुन्यजशत्यजेकाच् / पिष्टो यवोऽनाम्नि तिलो मृतोड़ो व्रीहिः पुरोडाश इदं तृणं वृत् // 1 // शरस्य विकारः शरमयम् / कोपान्तजन्तुन्यच् / कोपान्तात् प्राणिवाचिनः आरैजाद्यचः / काकमयम् / न प्राण्यञ् / कोपान्तात् किम् / वासम् / त्यच् किम् ? सैकम् / त्यचोऽप्राणिनोऽपि वक्ष्यति / त्यजैकाच् / त्यदादे आदैजायचः एकाचश्च / एतन्मयम् / भवन्मयम् / शालिमयम् / तथा काष्ठमयम् / कोपान्तप्राणिनियमाच्च / संसारसम् / तथा वाङ्मयम् // मृण्मयम् / तथा पिष्टयवादनाम्नि तिलाच्च / पिष्टमयम् / [यवमयम् / तिलमयम् / ] मृतादनाम्नीति नो सम्बध्यते / नात्रापवाद इत्यन्ये / व्रीहिमयः / पुरोडाशश्चेत् त्रैहोऽन्यः / छन्दोऽर्थम् // . . (38) फले पुष्पमूले लुगिष्टोऽपि / [2 / 4 / 5 / 6 / ] प्रकृतिविकारेंऽशे वा फलादौ विहितोऽणादि लुक् स्यात्, स चात्रेष्टो लक्ष्याविरोधेन / तद्यथा __प्लक्षाद्यणोऽन्यस्य फले लुगस्त्री जम्ब्वा न वा स्त्री च हरीतकीभ्यः - लिङ्गः वचः प्रागिव पुष्पमूले फले च तत्पाकशुषां नबिष्टम् // 1 // प्लक्षादेरत एवाण नाञ् / प्लक्षस्य फलं प्लाक्षम् / नैयग्रोधम् / अत्र तनुमध्या प्लक्षः पशुकः स्यात् न्यग्रोधविहिन्यौ / अश्वत्थोऽपि च बैल्वः कृत्वा कृतितोऽन्यः // 2 // अन्यस्याणादेः फले लुक् स्यात् स्त्रीनिवृत्तिश्च / आमलक्याः फलमामलकम् / बदरम् / कुवलम् / जम्ब्वाः फलेऽणो लुक् न वा, लुकि स्त्री च वा न वा / जाम्बवम् / जम्बु / जम्बू वा फलम् / हरीतकीभ्यः फलेऽणो लुक् स्त्री च नित्यम् पार्थक्यात् / हरीतक्याः फलानि हरीतक्यः फलानि / अत्र षट्पात् / हरीतकी च षट्काण्डी द्राक्षा गर्गरिका दरी / ऋक्षा शेफालिका काला दोही स्यात् कण्टकारिका / पाली श्वेतार्जुना दाडी दोडी कोशातकी गणः // 3 //