________________ 156 पञ्चग्रन्थी व्याकरणम् विकारे अपाम् आप्यं यो दीर्घत्वं च / अब्मयं वा / कंसार्थं कंसीयम् / तस्य यौ / कांस्यम् // (31) वाञ् शिंशपासीसगणात् / [2 / 4 / 4 / 8 / ] शिशपागणात् तयोर्वा अञ् / पाक्षेऽण् / सीसगणादञ् नित्यं, पार्थक्यात् / मयूरसारण्यप्यत्र श्लोकः - शिशपापलाशखादिरोकाः स्यन्दनो विकङ्कतो यवासः / स्यात् करीरचेच्छिरीषाः पलाशेति सीसलोहकण्टकाराः // 1 // रोहितको वीधदारु पीतदारुत्रिकण्टकौ / / रजतोदुम्बरौ प्राण्व्यनुदात्तादिविभीतकः // 2 // शिशपादेवृक्षत्वाद् अणि प्राप्ते शैशपं काष्ठं शिशपामयम् / खदिरस्य ज्ञानेन खादिर:, [पालाशः] बाणः / स्यन्दनादेरनुदात्तादित्वानित्याजि प्राप्ते इति गणान्ते / तथा सैसः, सीसमयः / नाण् / प्राणी अनुदात्तादिः, प्राणिभ्यः / कापोतं मांसम् / कापोतमयम् / मायूरम् / तैत्तिरम् / उवर्णात् / दैवदारवम् / भाद्रदारवम् / अनुदात्तादेः / कापित्थम् / माहित्थम् / इत्यादि / ये त्वत्रानुदात्ताः कण्टककाररजत एवंविधाः पृथगुक्तास्ते मयड्बाधार्थम् / ___ (32) जितोऽतः / [ 2 / 4 / 4 / 9 / ] अतो विकारांशयोविहितात् जितः पुनर्विकारांशयोरक् स्यात् / तत् ततोऽप्यके वा मयट् / एण्या विकार ऐणेयः / तद्विकारेऽप्यणेयः / तस्याप्यैणेयः / ननु विकारविकारोऽपि विकार एव, अवयवावयवोऽप्यवयव एव / ततो विकारांशयोः प्रकृतेरेव सिद्धम् / सत्यं, प्रकृतेरवस्थान्तरं विकारः / स च निम्बस्य स्तम्भः विकारो वा, यूपो वा, भस्म वा नैव स्यात् / यत्तु नैव स्तम्भः. तद्विकारो यूपः, तदा नैव मयः / स्ताम्भो, वा यूपः / यूपप्रकृति भस्म तदा नैम्बमयं स्ताम्भमयं वा, यौपं वा भस्म / एवं सर्वत्राण्विधौ / शिशपादेरणौ / तेन शैशप स्तम्भः तद्विकारः शैशपमयः / शैशपो वा स्ताम्भो वा यूपः / तद्विकारः जशपमयं शैशपं स्ताम्भमयं यौपं वा भस्म / यस्त्वाह-नैम्बविकारो नैम्बोऽणेव, तदशास्त्रीयम् / तत्र ऐणीकोशाड् ढञ् / वोमोणादकञ् / उष्ट्रान्नित्यम् / शम्या लगोरञ् वा ढञ् / कंस्याद् यश् / शिशपादेः वाञ् / सीसादेनित्यम् / एते कृतोऽतोऽञ् / तत् ततोऽप्यकुदाहार्यः / कृतः किम् ? वैल्वमयम् / अतः किम् ? वैदमयम् / सर्वणितामेतदेव फलमित्यन्ये // 4 // क्रीतवमानतो द्रोर्वयोऽस्मिन् पयोगोश्च योऽतोऽञ् मयड् वा त्वना च्छादभ- / क्ष्ये शरादेः फले पुष्पमूले लुगिष्टोऽपि राजन्यकाणे पदे वादितो वुविधौ. / भक्त देशेऽभिधाने निवासेऽप्यदौरः कृतो र्टोऽस्ति तत् // 2 / 4 / 5 // षट्पदी // (33) क्रीतवन् मानतः / [ 2 / 4 / 5 / 1 / ] मानार्थात् क्रीतार्थास्ते तद्विकारांशयोः स्युः / शतस्य विकारः, शत्यम् / शतिकम् / नैष्किकम् / मयट् वा / (34) द्रोर्वयोऽस्मिन् / [ 2 / 4 / 5 / 2 / ] अस्मिन् विकारे द्रोर्वयः स्यात् / द्रुवयम् // (35) पयोगोश्च यः / [2 / 4 / 5 / 3 / ] आभ्यां द्रोश्चैतयोर्यः स्यात् / मयड् वा गोः / पयस्यम् / गव्यम् / द्रव्यम् //