________________ द्वितीयोऽध्यायः चतुर्थः पादः 159 . मत्वर्थापवादः / तदिति निवासादित्रयमयं च / तदेवं चतुर्वर्थेष्वणादि यथायोगम् / आरज्मतो बह्वजतोऽथ कृपेषूदग् विपाशोऽपि च सङ्कलादेः / प्राक्षाल्वसौवीरस्त्रियां च देशे रोणी सुवास्त्वादिभ्योऽण् वदन्ति // 1 // यथोक्तसुबन्ताच्चातथिकोऽञ् स्याद ओर उवर्णात्, नाण् / तदत्रास्तीति / अर / कक्षतु कर्कटलु / आरडवम् / [काक्षतवम् / कार्कटेलवम् / ] नद्याः परत्वान् मतुप् / इक्षुमती / द्रुमती / यो बह्वच् शब्दोऽतो विहितान्मतोस्तथाऽत्र / ऐकटावतम् / ऐन्द्रकावतम् / बह्वचः किम् ? आहिमतम् / यावमतम् / अण् / अतो बह्वचस्तथा कृपेषु वाच्येषु / दीर्घवस्त्रेण निर्वृत्तः कूप दैर्घवस्त्रः / कापिलवस्त्रः / उदग्विपाशः / विपाश उत्तरे कूले कूपाः, तेषु वाच्येषु तथाऽञ् / दत्तेन कृतः कूपो दात्तः / गौप्तः / उदक् किम् ? दक्षिणतो विपाश: दात्तः, अण् / सङ्कलादेः / तथाऽञ् / तेन कृतं साङ्कलम् / अत्र दोधकोपजाती सङ्कलंपुष्कलकुम्भनिधाना उडुप उद्वप उत्पुट लोमन् / राजभृतातगवेषनिवेशाः गोभृतपूतिकवेमनहानि // 2 // पूलाशकूलाशपलाशगम्भीरभल्लपालाः करुणः सुदत्तः सुभृत्रगोलुन्दसुमङ्गलानि सुदक्षसद्योजसुनेत्रकाद्याः // 3 // प्राचि साल्वे सौवीरे च स्त्रीलिङ्गदेशवाचो यथोक्तम् / प्राचि ककन्देन कृता काकन्दी नगरी / माकन्दी / माणिचरी / जारुषी / एवं साल्वे / [विधूमाग्निना निर्वृत्ता] वैधूमाग्नी / सौवेरे / दात्तमित्री / एतेऽणोऽपवादाः / रौणीसुवास्त्वादिभ्योऽण् / तथाऽति विप्रसक्ताऽण् न पृथग् रोणी तदन्तार्थश्च / रौणः कृपः / आजकरोणः / सैन्धकरोणः / कृपेऽणि प्राप्ते सुवास्त्वादेरुवर्णकृपाण् च / सुवास्तोरदूरभवं सौवास्तवम् / अण् मतुबाधने / सौवास्तवी नदी / अत्रोपजाति सुवास्तुकर्कन्धुमतीविकर्णाः संवालिकऍरिशिखण्डिनः स्युः / सक्थाऽहिगर्ता अथ कृष्णकर्णो वर्ण: कुटीकर्ण च भण्डु खण्डु // 4|| कवतो वर्णकूपाञ् कृतेऽर्थे / ओः / त्रैशङ्कवम् / कार्कवाकवम् / तथा कार्णच्छिद्रक: कूपः / कार्णवेष्टकः / वदन्त्येतत् केचन / तदत्र चातुरर्थिकनाणा सिद्धम् / अअणोस्तुल्यरूपत्वात् स्वरकृत एव विशेपः / तत्राह जयादित्यः अतिसूक्ष्मेक्षिकेयं [सूत्रकारस्य] / अतश्चातुर्थिको विधिज्ञेयः // 5 // वलः शिखायाः नडशादतो डिद् बलादितो यादि तु साऽस्य राका / चैत्र्यादितष्ठक् कयदेवता चेन्मरुतुभ्यश्छ्यकौ घ शुक्रात् // 2 // 46 // वृत्तम् // (44) वलः शिखायाः / [2 / 4 / 6 / 1 / ] चातुरर्थिकः स्यात् / शिखावलं नगरम् // (45) नडशादितो डित् / [2 / 4 / 6 / 2 / ] तथा वल: डित् स्यात् / नड्वलम् / . शाद्वलम् / / (46) बलादितो यादि तु / [ 2 / 4 / 6 / 3 / ] भ्यसस्तसिति / बलाद्यादिभ्योऽष्टादशभ्यो