________________ द्वितीयोऽध्यायः चतुर्थः पादः 153 (8) देवात्पृथिव्या व्ययञ् / [ 2 / 4 / 1 / 8 / ] अपत्याद्यर्थे क्रमेण स्तः / दैव्यः / पार्थिवा (9) उत्सतश्चाञ् / [ 2 / 4 / 1 / 9 / ] ज्यअञ् / उत्सादेराभ्यां च तदर्थेऽञ् स्यात् / औत्सः / तथा दैवः / [पार्थिवः / ] दैवी / [पाथिवी] वृत्तद्वयमत्र आर्या उत्सोदपानभरताः जगती च पङिक्तः / त्रिष्टुब्महानदमहानसबष्कयाश्च / / पञ्चालधेनुबृहतीकुरुभल्लकीया मध्यन्दिनोष्णिहरथन्तरकुम्भदंशाः // 1 // इन्द्रावसानककुभः सुवर्णः दंशे पृषा ग्रीष्ममहद्विकाराः। पीलुर्महाप्राण उशीनरः स्यात् सत्त्वन्तु इन्द्रायुधकुण्डमाषाः // 2 // अपवदजनपदतरुणाः महिमदनुष्टब्बृहत्त्वात् तलुनोऽपि / देशे उदस्थानः विनदः नदाविहो आदि // 3 // [ // 1 / ] बाहीकबाह्येऽग्निकलेस्तु ढक्त्वात् स्त्रीपुंसत जोञ् इह ते समूहः / वाऽश्वाच्छ भिक्षाखलपाशकेशपिद्भ्योऽणालिनौ ल्यण्यमकञहीनाः // 2 / 4 / 2 // वृत्तम् // (10) बाहीकबाह्ये / [ 2 / 4 / 2 / 1 / ] बहिषः टीकण्ण्यौ / तदर्थे निपात्यते / वाहिकी स्त्री // (11) अग्निकलेस्तु ढक् त्वात् / [ 2 / 4 / 2 / 2 / ] आभ्यां तदर्थे ढक् स्यात् / त्वात् पुरः / सर्वत्र आग्नेयः [अष्टाकपाल:] / त्वात् किम् / अग्निवत् // (12) स्त्रीपुंसत ओञ् / [2 / 4 / 2 / 3 / ] आभ्यां तदर्थे अञ् स्यात् / तत्र किम् ? नागमः / स्त्रैणम् / पोस्नम् / स्त्रैणी / [पौंस्नी / अत एव स्त्री च पुमांश्चेति अदन्तता / स्त्रीपुंसौ // ... (13) इह ते / [ 2 / 4 / 2 / 4] प्राक्त्वादित्युक्तं तस्मिन्निह त्वप्रत्ययार्थे, भावे इत्यर्थे:, ते भावप्रत्ययाः स्युः / जोञ् वर्तते / स्त्रीणां भावः स्त्रीत्वम् / स्त्रीता / स्त्रंणम् / पुंस्त्वम् / / (14) समूहः / [2 / 4 / 25 / ] तस्येति षष्ठ्यन्तात् समूहेऽर्थे / अतो यथाविध्यणादयः स्युः / काकानां समूह: काकम् / तैत्तिरम् / खण्डिकादि तु भिक्षादौ / अनुपादानान्नादेरश्च / / __ (15) वाऽश्वाच्छः / [ 2 / 4 / 2 / 6 / ] तथाऽण् वा / अश्वीयम् / आश्वम् // (16) भिक्षाखलपाशकेशपिद्भ्योऽणालिनौ ल्यण्यमकञहीनाः [ 2 / 4 / 27 / ] भिक्षेत्यादेः तस्य समूहे आणाद्यादि क्रमेण स्यात् / तथा अहीनाः निपात्यन्ते / एष्विन्द्रवज्र अथ दोधकं चार्या च षट्पात् पञ्च-२०