________________ [अथ द्वितीयाध्याये चतुर्थः पादः // ] त् i // .. अण् योऽचि गोद्वेः पिदिहाण धनादेः पत्युस्तिदादित्ययमादितेश्च / / ज्योऽस्वात् पुरः स्थाम ति लोमपित्सु देवात् पृथिव्या व्ययजुत्सतश्चाञ् // 2 / 4 / 1 // इन्द्रवज्रा॥ (1) अण् / [ 2 / 4 / 1 / 1 / ] अनन्तादद्वयार्थेऽण् स्यात् // (2) योऽचि गोः / [2 / 4 / 1 / 2 / ] अणादावजादौ गोर्यस्य वा, गोरपत्यं वा, गोरस्य देवता [वा], गवा चरति [वेत्यर्थेषु यप्रत्ययो भवति / ] गव्यम् / अचि किम् ? गोरूप्यः / अणादौ किम् / गवः / एवं सर्वत्र // (3) द्वेः पिदिहाण / [2 / 4 / 1 / 3 / ] द्वेः परां गोः [इति] द्विगोः समासादिहेत्यणधिकारे विहिते पौत्रादिद्विगुनिमित्तश्च यः अण् [यकारादिश्च प्रत्ययस्तस्य] श्लुक् स्यात् स्वार्थे / पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः' [दशकपालम् / पञ्चेन्द्रः / दशेन्द्रः / यादेः / द्वयो रथयोढेिरथ्या वाडयं द्विरथः / त्रिरथः // (4) धनादे: पत्युः / [2 / 4 / 1 / 4 / ] धनादे परो यः पतिशब्दस्तदन्ता अणादावजादावपत्याद्यर्थे अण, प्रत्यय: स्यात् / धनपतेरपत्यं धानपतः / आश्वपतः / राष्ट्रपतम् / धान्यपतम् / प्राणपतम् // (5) तिदादित्ययमाद् दितेश्च ज्योऽस्वात् पुरः / [ 2 / 4 / 15 / ] पत्युत्तरपदाद् आदित्ययम इत्येतेभ्यश्च पुरा विहितेऽर्थे ज्यप्रत्ययो वा भवति / बृहस्पतेरपत्यं बार्हस्पत्यः / याम्यम् / आदित्यम् / दैत्यम् / दितेरपत्यं दैत्यः / ] अदितेश्चादित्यः / दितिग्रहणाद् दित्याः दैतेयः / - स्वात् पुरः किम् ? तस्येदम् / औष्ट्रपतम् / आदितीयम् // .. (6) स्थाम ति [ 2 / 4 / 1 / 6 / ] तीति समासान्तस्थात् स्थाम्नोऽपत्यादौऽत् निपात्यते / अश्वत्थामः // (7) लोमपित्सु / [ 2 / 4 / 17 / ] लोमान्तादन्निपात्यते पित्स्वपत्येष्वेव बहुषु / उडुलोम्नः पुत्राः उडुलोमाः / पित् किम् ? तस्येमे औडुलोमाः / बहुषु किम् ? औडुलोमिः // 1. The text from दश० 0 दैत्य: enclosed in square brackets has been smudged due to wet in of fresh writking in the Palm Leaf No. 159 a, rendering the letters almost undecipherable; the text is reconstructed here.