________________ द्वितीयोऽध्यायः तृतीयः पादः खर्जूरभण्डितविदाः विषमः पवित्रः पिञ्जूलभण्डितविशालजडाः पविन्दाः / शङ्खोत्सशूद्रकशिवाश्चपलः श्रविष्ठो वाग्मिन्गिरी सनकदासनडार्जुनाः प्रहन् // 12 / / जनवतकाणौ भडितः खदिरप्रहृतौ पुमांस्तु जातस्तु / सुमनाश्च दुर्मनाश्चेति शपात्रेये गणोऽश्वादिः // 13 / / विदोर्वकिन्दर्भकिलातधेन्वृष्टिषेणविश्वानरकाश्यपा उ- / पमन्युहर्यश्वकुवाचराः श्यावकः शरद्वत्प्रियकर्तभागाः // 14 // कुशिकापस्तम्बभरद्वाजाः शिग्रुशमीकगोपवनाः स्युः / श्यामाकबिन्दुभाजनाः श्यापर्णाश्वावतानहरिताश्चाष्टौ / / 15 / / किन्दासवध्योषथीतराः स्युः पुत्रः मृदाकुर्वठरः परस्त्री / विष्णुपुँदाकुर्दुहिता ननान्दा वृद्धः सृदाकुः परशुर्निषादाः // 16 / / मित्रयुश्च पुनर्भूश्च गविष्ठिरगविष्टिलौ / ऋषेर्मात्रे कलसश्च प्रतिबोधरथन्तरौ च // 17 // गणाः / 4 / / कुञ्जस्यापत्यं पौत्रादि कौञ्जायन्यः / [कौञ्जायन्यौ / ] कौञ्जायनाः / यो ज्फः / वृदन्तः कुञ्जादिः // एवं गार्ग्य: / आङ्गिरसमपत्ये कपिबोधौ / एवं ड्यर्थेऽन्यः / वशवयौ तिति समासे / जत्वादिकर्णः / जतुकर्ण इत्यर्थः / रथवामपूर्वः वामरथ इत्यर्थः / रोह असुबन्तः / वृकां गणः / वृकगण इत्यर्थः / रोहवृकादन्ये / एवं बृहादग्निर्यमदग्निः / उभयजातः / दल्भाता गर्गादयः / वृदकरणमाकृत्यर्थम् / भिषजभण्डितविकनादयः गर्गादिः // एवम् आश्वायनः / [आश्मायनः / वैक्ष्यायन: / ] आत्रेयेऽपत्ये भारद्वाजः / अत्रेति भारद्वाजे वाऽपत्ये / अयमात्रेयः / ड्यर्थेऽन्यः / पुमांस्तु / जातस्तु जातायन: पुमांश्चेत् / जातेयोऽन्यः / अश्वादिगणान्तः // एवं वेदः / विदा शिग्रु आद्याः शिग्रुत अष्टौ / हयहरितादि // 16 / / (146) आङ्गिरसे वतण्डी / ( 2 / 3 / 17 / 5 / ) आङ्गिरसेऽपत्ये वतण्डी स्त्री निपात्यते / वातण्ड्यो ना गर्गादौ // (147) पौत्रादि तत् / (2 / 3 / 17 / 6 / ) पौत्रादावपत्ये यदुक्तं तदनेन // सप्तम एष पादः // 17 // ( इति श्री बुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे द्वितीयाऽध्याये तृतीयः, आदितो वा सप्तमः, पादः // )