________________ 150 पञ्चग्रन्थी व्याकरणम् रणेऽर्थे कृष्णः, पठ्यर्थेऽन्यः / क्वाप्यग्निशर्मिन् / आग्निशर्मायन: वृषगण एव / जीवन्तादेः वा / जैवन्तायनिः / जैवन्तिः / [द्रौणायनिः / द्रौणिः / पर्वतायन: / पार्वति: / ] अक च / पौत्राद्यजन्तहरितादेः यजन्तेजन्ताच्च / हारितायन: / गार्यायणः / दाक्षायणः / आकृतिगणत्वात् प्राणनरादयोऽपि // (145) कुञ्जगर्गाश्वविदादितो ज्यञ्फञ इति / [ 2 / 3 / 17 / 4 / ] तस्यापत्ये पौत्रादौ यथासंख्यं ज्य ञ्अञ् एते स्युः / एष्विन्द्रवज्रे 2 सनान्यः 2 अनुष्टुप् 4 गाथा 5 चतुर्ये 7 अथ तोटकं स्यात् / स्यादष्टगाथा 10 तिलका 11 तथार्या 12 उपेन्द्रवज्रा 13 विपुला 14 द्या 14 श्लोकाः 16 // 1 // कु) विपाशः शठः शाकशुण्डे ब्रध्नो गणस्कन्दशुभाश्च भस्मन् / स्कम्भश्च लोम शङ्खवृच्च गर्गाजविश्वावसुशङ्खवृक्षाः // 2 // प्राचीनयोगैकपुलस्तिरेभाः शालावदूर्णावदसङ्कृतिश्च / / स्यात् कौशिके बभ्रुमधु द्विजे तु स्तो वंशवयौं तितिक्षाग्निवेशः // 3 // यज्ञवल्क: पूर्णकल्कमनुतन्तुगन्तुशन्तु - कृष्णमन्तुरोहिताश्च वृक्षकक्षे तित्तिरिश्च // 4 / / शिखावद्व्याघ्रपादौ स्तः शमीवल्लोहितभ्रुवाः / गोलन्दकश्च गोकक्षाः पूतिमाषविरोहितौ // 5 // जात्वादिको रथवामपूर्वः स्यान्मन्तुतो रोह वृकाद्गुणास्तु / बृहाद्यमादग्न्युभयादिजातकुटीगुसूनाश्मरथा वतण्डः / स्थूणासुलाभिन्शकलाश्च गाथा // 6 // इन्द्रहूर्देवहरेकलूः पिप्पलूशर्कराक्षौ अराराकास्तरिक्षुः / तलिक्षुस्तथोलूकपाराशरौ पिङ्गलः कुण्डिनी मुद्गलाऽगस्त्यः तण्ड: मण्डुः // 7 // कतधूर्तशकाऽवटसङ्क्तयो जरमाणधनञ्जयसाङ्गिरसे कपिबोधमथो कुरु कतविदभृच्छमीवच्चमसाभिजित्त्वनडुहः / / 8 / / मुशला साहित वल्गु मनायी मञ्ज तरुक्षजिगीषुकलूषाः / / कत्थकसंमितवक्रवतण्डाः लिङ्गकतौ कपिशण्डिलदल्भाः // 9 // अश्वाश्मानौ वीक्ष्यक्षान्तौ बैल्यग्रीष्मौ धर्म्यग्रीवे स्यादात्रेये भारद्वाजेऽत्रायं भर्गस्त्रैगर्ते तु // 10 // रामोदकाशूकितवातपाऽर्काः गोलाह्वपादौ पटतूलगोमिन्- / विश्वम्भरा रोहिणचक्रधूमाः विश्वानरः श्वन्नलिनानडुह्याः // 11 //