________________ द्वितीयोऽध्यायः तृतीयः पादः 149 (140) सौवीरतष्ठण् / [2 / 3 / 16 / 8 / ] सौवीरप्रसिद्धात् तथा ठण् वा वृत्ते यथाप्राप्तं वा / भागवित्तेरपत्यं भागवित्तिकः / परत्र तार्णविन्दविकः / इग्वा / आकाशापेयिकः / इग्वा / जाल्मः / त्रयः सौवीराः / (141) फिजश्छोऽपि / [2 / 3 / 16 / 9 / ] फिजन्तात् सौवीरात् तथा छ ठण् वा / अन्यदपि / यामुन्दायनेरपत्यं यामुन्दायनीयः / ठणश्च / [यामुन्दायनिकः / यामुन्दायनिर्वा / ] एवं सौयामायनीयः / [सौयामायनिकः / सायामायनिः / ] वार्षायणीयः / [वार्षायणिकः / वार्षायणिः / जाल्मः / कुत्स्यः किम् ? यामुन्दायनिः / सौवीरात् किम् ? तैकायनिः / फिञान्ताः सौवीरास्त्र्य एव // (142) फिञ्णौ / [ 2 / 3 / 16 / 10 / ] च परार्थों // 16 // फाण्टाहृतेस्तन्मिमतान्नडादेः फक्कुञ्जगर्गाश्वविदादितोः फ - / यफञ इत्याङ्गिरसे वतण्डी पौत्रादि तत्सप्तम एष पादः // 2 / 3 / 17 // वृत्तम् // (142) फाण्टाहृतेस्तत् / [ 2 / 3 / 17 / 1 / ] तदिति सौवीरात् पौत्रान्तादतोऽपत्यमात्रे फित्रणौ स्तः / फाण्टाहृतस्यापत्यं पौत्रादिः फाण्टाहतिः / तदपत्यं फाण्टाहतायनिः / फाण्टाहृतः / स्त्रियां ड्यात् / णिदपुंवदर्थः / फाण्टाहृताभार्यः // . (143) मिमतात् / [ 2 / 3 / 17 / 2 / ] सौवीरादपत्ये तौ स्तः / मैमतायनिः / मैमतः / पृथक् पौत्रादिनिवृत्यर्थम् असौवीरात् / मैमतायनः // (144) नडादेः फक् / [ 2 / 3 / 17 / 3 / ] पौत्रादावपत्ये / नडस्यापत्यं तत्पौत्रादि: नडायनः / इह एणप्लुता च दोधकद्रुतवंशाः स्युस्तथा श्लोकौ - नडमित्रयुगन्धरशिशपाः लमकहंसककार्मुकदण्डिनः / चरसप्तलपञ्चसमिद्विकाः शकटो लोहः तृणोपकदण्ड्याः // 1 // पिङ्गरपिङ्गलकिङ्करदासाः किङ्कलकातरकाथलकाश्याः / काश्यपकामुकसायककाव्याः मुञ्जकुमारजनन्धरप्राणाः // 2 // .. स्थिरकदुर्गयुगन्धरब्राह्मणाः पटकपाशसुकृत्यमजाचरौ / वहनचित्रद्वितीयमथोपकः कारकशोणममुष्य च नाव्य च // 3|| क्षाप्यग्निशर्मन्मिमतेतिकाः स्युः पञ्चालहस्तिन्सुमताश्वलाग्राः / स्याद् ब्रह्मदत्तः सुमनाश्च लोह: स्यात् त्यास्मको मित्ररणेऽपि कृष्णः // 4 // वाशिष्ठ्ये ब्राह्मणे क्रोष्टा क्रोष्टं चाऽतकशातकौ / शलङ्कुश्च . शलङ्कं च जीवन्तद्रोणपर्वतात् // 5 // शरद्वद्भार्गवे वात्स्ये शुनकाच्चाग्रहायणे / दर्भो वाजप्यतिको लिङ्गश्चाश्कचो यञ्जस्त्विकः // 6 //