________________ 148 पञ्चग्रन्थी व्याकरणम् षष्ठ्यन्तस्य कगागम: स्यात् / कार्कट्यकायनिः / कार्कट्यः / गारेथकायनिः / [गारेथिः / न इल्लुक् स्यात् / वर्मिचर्मिणोः स्त्रियां च / वार्मिकायणिः / [चार्मिकायणिः / ] पुत्रान्तं वा / लक्ष्याविरोधिनो विध्यधिकारादयो बहुलवचनात् पुत्रान्ताद् आरैजाद्यचोऽनपत्यप्रत्ययान्तात् यिकयिकगयि वा / गार्गीपुत्रायणिः / गार्गीपुत्रः / गार्गीपुत्रकायणिः / वात्सीपुत्रिः / [वात्सीपुत्रायणिः / वात्सीपुत्रकायणिः / ] वाकिनिः / एवं काकलङ्कयोः // (134) आद्याद्आपौत्रादितोऽर्थे / [ 2 / 3 / 16 / 2 / ] आद्यात् परमप्र कृते: पौत्रादिप्रत्ययान्तात् स इत्येऽपत्यप्रत्ययः स्वार्थेऽप्यत्यवणादय इत्यर्थः, पुनः स एव चेत् तदन्तवाच्यः पुमान् अर्यः पूज्यः स्यात् / गर्गापत्यं गार्गिः / तस्यापत्यं गार्यः / स एव तत्रभवान् गार्यायणः / गार्यो वा / तत्रभवन्तो गाायणाः / गर्गा वा / एवम् औपगविः / औपगवो वा / कार्कायणिः / कार्बो वा / पुमान् किम् ? दाक्ष्यः / आद्यात् किम् ? गाायणः / पौत्रादेः किम् ? दाक्षिः / अर्यः किम् ? औपगवः / स इति प्रकृतिः / प्रत्ययप्रकृत्यर्थं पुमर्थं च // ___(135) अस्ति वंश्ये / [2 / 3 / 16 / 3 / ] पौत्रस्याद्यात् पौत्रादिप्रत्ययान्ताच्चतुर्थादारभ्यो योऽपत्येऽणादिः स जीवति वंश्ये स्यात् / गार्यायणः / औपगविः / मृते / गायः / औपगवः / पौत्र एव / यद्वा स्वार्थेऽपत्येऽचणाणादयः स्युः, स एव चेदन्तवाच्यः पुमान्, अस्ति जीवति वंश्ये पित्रादौ / गार्ग्य एव गाायणः / औपगव एव औपगविः / मृते पित्रादौ गार्ग्य एव / अन्यस्मिन् जीवत्यपि गार्ग्य एव / अनच्यार्थे च वचनम् / (136) गुरुभ्रातृकः / [2 / 3 / 16 / 4 / ] आद्यान्त्यौ / आद्यन्तात् तस्यापत्यं पुमानित्यर्थे यथाविधि प्रत्यय: स्यात् तदन्तश्चेद्गुरुभ्रातृकः / गुरुः ज्येष्ठः पूज्यो वा भ्राता यस्य स तथा / स च ना सता तेन पौत्रादपत्ये / औपगवे गार्ये वाऽस्ति औपगविः / गाायणः / कनीयान् भ्राता / गुरुः किम् ? गार्ग्यः // (137) वा वयःस्थानपूज्ये सपिण्डेऽस्ति / [ 2 / 3 / 16 / 5 / ] तथैव गतदत्तस्य चेद् वयसा स्थानेन च पूज्य: उत्कृष्टः सपिण्ड: पितृव्यपितामहभ्रात्रादि अस्ति जीवति, पुनरस्ति स्वयमप्यस्ति वेत् / गाायणः, गार्यो वा / औपगविः [औपगवो वा] / उभयत्र दशाहानि कुलस्यान्नं न भुज्यते / दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते // 1 // इत्यादौ क्रियायां येऽधिक्रियन्ते ते सपिण्डाः / सा चेयमासप्तमपुरुषा क्रिया निवर्तते / (138 ) कुत्स्यः / [ 2 / 3 / 16 / 6 / ] तथैव तदन्तः कुत्स्यश्चेत् / गाायणः [जाल्म:] / [गाग्र्यो] जाल्मः / कार्चायणिः [जाल्मः] / कार्बो वा [जाल्म:] || (139) स्त्रियाष्ठण्णः / [2 / 3 / 16 / 7 / ] तथैव स्त्रीलिङ्गात् / गार्या अपत्यं जाल्म: गार्गः / गार्गः किम् ? ग्लुचुकायन्या अपत्यं ग्लौचुकायनिकः / ग्लौचुकायनः / स्त्रियाः किम् ? औपगविः / गार्यो जाल्मः / कुत्स्यः किम् ? गार्गेयः / पौत्रादेः किम् ? कारिकेयो जाल्मः //