________________ 154 पञ्चग्रन्थी व्याकरणम् भिक्षासहस्र युवतिः पदातिः सेनाभिधाः क्षुद्रका मालवाश्चेत् / अङ्गारचर्मिन्वाडवाकरीषाः भस्मन्नथर्वन् हलखण्डिकाऽहन् // 1 / / . श्वगर्भिणीभिक्षुकबन्धबन्धनक्षेत्राणि वर्मन् शुकदक्षिणाः स्युः / पदात्युलूको युगवादिरत्र वृक्षात् खलाड्डाककुटुम्बतो वृत् // 2 // पाशपिटाकजनाः नलधूमाङ्गारगलाः खलगोरथवाताः / पोटतृणे पिटकः शकटं स्याद् अत्र वनं भवतीति गणोऽयम् // 3 // केशब्राह्मणमाणवगणिकाकेदाराः वाडवा वृद्धगौरौ / / क्रोष्ट्रोरभ्राः राजन्यमनुष्यकेदाराः वत्साजराजपुत्रोऽष्टाः // 4 // राजन्वृद्धौ गणे कतावहीनपृष्ठ्यौ वातूलगोत्रोक्षन् रथकट्याः / पार्श्व ग्रामसहायात् तल् गजबन्धुजनाच्च वृत् // 5 // भिक्षाणां समूहो भैक्षम् / सेनासंज्ञा चेत् क्षत्रियद्वन्द्वाद् अण् / क्षौद्रकमालवी सेना // 1 // नागसगोत्राऽकोडचित्ता वाऽणाद्यपवादः / युगवदिरत्रा / युगवरत्रा इत्यर्थः / वृत् / तथा खलिनी / [डाकिनी / कुटुम्बिनी / ] आकृतिगणत्वात् कुण्डलिनीत्यादि वृत् // 2 // तथा पाशादितो स्त्र्यार्थे / गणान्तः // 3 // तथा कैश्यः / उक्ताबाधयाऽचित्तादण् / कैशिकम् / केदारात् पिण्ड्यादिपाठाच्च / कैदार्यम् / कैदारिकम् / वृत् // 4 // तथा पिदपत्यन्मानं गोत्रमाह / गोत्रोक्षनित्यादि / दाक्षीणां समूहो दाक्षकम् / औपगवकम् / तैकायनकम् / आदिशब्दाद् औक्षकम् इत्यादि गणः / तथा क्रतावर्थेऽह्नां समूहः अहीनः / पृष्ठ्यानां पृष्ठ्यः क्रतुः / कतौ किम् ? पाष्ठिकम् / भिक्षादिभ्योऽण् / आह्नम् / वातानां वातूलम् / पाशादौ वात्या / गवां गोत्रा / रथानां रथकट्या / तथा अनागतपर्टूनां समूहः पार्श्वम् / गामादेः तल् / ग्रामता // 5 // // 2 // ठण हस्त्यनञ्धेनुकवच्यचित्ताढञ् तत्कृतान्ते पुरुषाद् वधे च / हिते विकारौषधिवृक्षजन्तोर्वांशो जतोः षुक् त्रपुणश्चपादेः // 2 / 4 / 3 // वृत्तम् // (17) ठण् हस्तिननञ्धेनुकवच्यचित्तात् / [2 / 4 / 3 / 1 / ] एषां समूहे ठण् स्यात् / हास्तिकम् / धैनुकम् / अनञिति [किम् ?] [अधेनूनां समूहः] आधेनवम् / अत एव तदन्तविधिः / गौधेनुकम् / वने हास्तिकम् / कवचिनां [समूह:] कावचिकम् / अचित्तात् / आपूपिकम् / शाष्कुलिकम् // (18) ढञ् तत्कृतान्ते पुरुषाद्वधे च हिते / [ 2 / 4 / 3 / 2 / ] पुरुषाड्ढञ् स्यात् तत्कृते तथाऽमुत्र समूहापेक्षायाम्, अतो विकारे तद्विकारे तद्वधे चकारात् समूहे च तद्धिते चार्थे / [पुरुषेण कृतं पौरुषेयम् / पुरुषस्य विकारः, पुरुषस्य वधः पौरुषेयः / पुरुषाय हितं] पौरुषेयम् // (19) विकार / [2 / 4 / 3 / 3 / ] असुबन्तः / वेति सञ्चनं, तस्य विकार इत्यर्थे यथाविध्यणादयः स्युः, मयड् वा / अश्मनो विकारः आश्मः / आश्मनः / अश्ममयः / भस्मनो [विकारा भास्मनः / ] भस्ममयः / मार्तिकः //