________________ 146 पञ्चग्रन्थी व्याकरणम् पीलामण्डूकाच् / चतुःपदी / शाबलेयः / बाहुलेयः / वैहतेयः / वैनतेयः / एवं गार्टेयः इत्यादि / / 17 / शाब्दो हल्यजवस्तीवृत् यावद् दिशादि // (115) निदुःष्वसुः / [2 / 3 / 14 / 7 / ] षन्निमित्ताद् ऋतः परस्याः स्वसुः अपत्ये ढञ् नित् स्यात् / मातृष्वसेयः / पितृष्वसेयः / ऋ किम् ? मातुःष्वसः / [पितुःष्वसः / ] ष किम् ? भातृस्वसः // (116) छण् / [ 2 / 3 / 14 / 8 / ] तथैव / मातृष्वस्रीयः / मातृष्वसेयः / न डित् // (117 ) छ च / [ 2 / 3 / 14 / 9 / ] स्वसुरपत्ये / स्वस्रीयः / पृथक्केवलार्थः // (118) वाऽत्यचः फिः / [ 2 / 3 / 14 / 10 / ] अत्याद्यारैजाद्यचः, तस्यापत्ये फि: स्यात् / वेति बहुलम् / ग्लुचुकायनिः / ग्लौचुकिः / अहिसुञ्चकायनिः / [आहिसुञ्चकिः / विष्णुमित्रायणिः / [वैष्णुमित्रिः / ] त्यचः त्य राजदन्तिः / वा किम् ? दैवदतिः / दाक्षिः / प्लाक्षिः // 14 // भ्रातुळछौ यः श्वसुरात् कुलाड्डकञ् खोऽन्त्यान्महादेः खञको वृचोऽपि ठण् / क्षुद्राभ्य एरण्णाण च जाण्टफाण्टतः गोधात एरण चटकाड चाड् स्त्रियाम् // 2 / 3 / 15 // इन्द्रवंशा // (119) भ्रातुर्व्यछौ / [ 2 / 3 / 15 / 1 / ] तथा स्तः / भ्रातृव्यः / भ्रात्रीयः // (120) यः श्वसुरात् / [ 2 / 3 / 15 / 2 / ] श्वसुर्यः // . (121) कुलात् / [ 2 / 3 / 15 / 3 / ] कुल्यः / बहुकुल्यः / बहुदुदंशः // (122) ढकञ् / [ 2 / 3 / 15 / 4 / ] कुलादपत्ये / कौलेयकः // (123) खः / [ 2 / 3 / 15 / 5 / ] कुलात् / कुलीनः // (124) अन्त्यात् / [2 / 3 / 15 / 6 / ] कुलान्तात् खः / आढ्यकुलीनः / महाकुलीनः / दुःकुलीनः / दिशादौ च / दौष्कुलेयः // (125) महादेः खञकौ / [2 / 3 / 15 / 7 / ] तथा स्तः, महाकुलात् / महाकुलीनः / महाकुलः // (126) वृचोऽपि ठण् / [ 2 / 3 / 15 / 8 / ] वृच्प्रत्याहारः / वृकवञ्चिनि त्यादेर्नीजन्तात् तस्यापत्ये ठण् स्यात् / रुक्मवती वृचि - हल्यजवस्नीवृट्टकवञ्चिन् कर्णवृकाद्दण्डादपि ग्राहः / द्वारमणेरश्वादपि पाली कुक्कुटतोऽक्षो रेवततो डीच् // 1 // वृदन्तो दिशादि / वार्कवञ्चनिकः / कर्णादेः ग्राह: / कर्णग्राहः / [वृकग्राह: / दण्डग्राहः / ] तथा द्वारपाली / [मणिपाली / अश्वपाली I] कुक्कुटाक्षः / रेवती च //