________________ 145 द्वितीयोऽध्यायः तृतीयः पादः परिधिपाण्डवजीवकिशोरिकाशवलकर्षगुदाश्च कुमारिका सकलशुक्रशकाजिररुक्मिणीशकुनिनारदमाधुरिकासृकः // 12 // शुभ्रशलाथलविष्टपुराः स्युर्ब्रह्मकृतः कृकलासविधाताः / भारतभामरकद्रुमृकण्डुरन्यतरेतरदेवतराः स्युः / श्वकृकुशाविकुशावमुकष्टुदग्रमकष्टशकन्धि अनीवि // 13 / / कान्ताऽशोकाऽनुदत्ताः स्युः वायुदत्तश्च धर्मिणी / जिह्वाशिनशलाकाभ्रूखरोन्मत्ताश्च रोहिणी // 14 // खट्वादुःकुललेखभ्रू अनामन्तं च पिङ्गला / वासिष्ठे लक्षणश्यामौ प्रवाहणकुबेरिका // 15 // ज्येष्ठा कनिष्ठा सुदुरो भगादिन् कल्याण्यमा मधुमया परस्त्री / मध्या बलीवद्यनुदृष्टिबन्धकी रजाजरानी कुलटा नु वादिन् // 16 / / काश्यपे कुशीतको विकर्णकाम्बिकाद्यडो द्व्यचो निक्रिभ्यः / पीच् चतुःपदी च गृष्टिदृष्टिविश्रिकुद्रिमित्रयुर्बलिश्च // 17 // हल्यजवस्त्रीवृत् / उत्तरेण सह / एकत्र 16 [+1=17] / दार्थ्यः / वामरथः / सकलादिवत् अच् / अन्ते इति स्वरकार्यवर्जः / वामरथ्यः / बहुषु लुक् / वामरथाः / सकलादेर्गोत्रादण् वामरथ्यस्थाचो / वामरथः / संघाकघोषलक्षणेष्वक्यक्रिक: लुक् / वामरथ्यस्याङ्क: वामरथः / कुरु क्षत्रियार्थः / कौरव्याः / वेनाच्छन्दसि / भाषायां वैनिः / केशिनीति न पुंवत् / केशिन्यः / साम्राज्यः / क्षत्रिये किम् ? साम्राजः सेनान्ताकारुलक्ष्मणश्च / सेन् प्रत्याहारः / बाह्वादौ वेक् / हारिषेण्यः / हारिषेणिः / वारिषेण्यः / [वारिषेणिः / ] कारु / तन्तुवाय्यः / तन्तुवायिः / कौम्भकार्यः / कौम्भकारि: / नापत्ये / इञ् नास्ति / रथकारोऽत्र जातिवाची / कारुः सिद्धोऽनेन / लाक्ष्मण्यः / लाक्ष्मणिः / दर्भादि // 5 // बाह्वादेर्मूषिकान्ताद् गोत्रादेः / बाहविः / लाहवोऽन्यः / सम्भूयसम्भसोः स इत् स्यात् / साम्भूयिः / [आम्भिः: / ] अमितौजस् अस्य च / [अमितौजसः / अमितोजिः / ] शालुङ्कः / शालुङ्किश्च / अत्सेच् / अदन्ताः / दाक्षिः / सेचः / औपगविः सेच् / सेनान्ता इह कारुलक्ष्मणश्च इत्युदाहृतम् / अकड् स्यादन्त इत ऊर्ध्वं व्यासादेः 6 / वैयासकिः / [नैषादकिः / चाण्डालकिः / बैम्बिकिः / सौधातकिः / वारुटकिः / ] बाह्वादि // 10 // ____ देशेयः 5 / सुदुरो भगा / सुभगा / दुर्भगा इत्यर्थः / ज्येष्ठादेः डिनतः स्यात् / ज्यैष्ठिनेयः इत्यादि / रजाजरानी / रजती रजनी इत्यर्थः / कुलटानुवादिन् / कोलटिनेयः / कौलटेयः / पुनङिन् नोत्तरत्र / कुलटाच्च चो वा इत्येके पठन्ति / कुलटाच् च, अनेन वच्प्रत्याहारः / बलीवादि / तस्य वा ङिन् / घर्थेभ्यः / घडो व्यचोऽनिक्रिद्भ्यः / घटप्रत्याहारात् / कौम्भकारेयः / सोपर्णेयः / कामण्डलेयः / व्यचो घड एव नारीनृदीबाधार्थम् / दात्तेयः / इजित इदन्तात् / आत्रेयः / वाह्रयः / अनिक्रः किम् ? दाक्षायणः / द्व्यच एव / मारीचः / पीच्चतुःपदी च / पीच् . पञ्च.-१९