________________ 142 पञ्चग्रन्थी व्याकरणम् (103) आद्यात् तस्यापत्यम् / [2 / 3 / 13 / 3 / ] अतः परम् आद्यात् परमप्रकृतेरेव तस्यापत्याद्यर्थे वाऽकादयः [प्रत्ययाः] स्युः / गर्गस्यापत्यं पौत्रादि: गार्ग्यः / तस्याप्यपत्यं गार्ग्यः / एवं दाक्षिः / औपगवः / उक्तपदानां वा आद्यपदात् / चर्मणा परिवृत्तो रथः चार्मणः / तस्येत्याविकारम् / अपत्यमित्यापादम् // (104) राष्ट्राख्याद्राज्ञोऽञ् स्यात् / [2 / 3 / 13 / 4 / ] जनपदसमाननाम्नः क्षत्रियात् तस्यापत्येऽञ् स्यात् / इत्यत्रेव नेञ् / पञ्चालस्यापत्यं पाञ्चालः / ऐक्ष्वाकः / इक्ष्वाकवः / राष्ट्रात् किम् ? द्रुयुः / द्रौद्यवः / [द्रौह्यवौ / ] द्रौह्यवाः / राज्ञः किम् ? पाञ्चालिः विप्रः // (105) राजाख्यव्यत्यस्तात् / [2 / 3 / 13 / 5 / ] क्षत्रियतुल्यनाम्नो राष्ट्रात् तस्य राजेत्यर्थेऽञादयः / पञ्चालानां राजा पाञ्चालः / इतोऽपत्यं राजेत्यधिकारः || (106) अण् पूर्वादेः साल्वांशादेरिञ् / [ 2 / 3 / 13 / 6 / ] तथैव स्तः, गणान्वयवति // (107) पाण्डोर्यण् / [ 2 / 3 / 13 / 7 / ] अराष्ट्रात् पाण्डवः / णिद् अपुंवदर्थः / पाण्ड्याभार्यः // (108) कुर्वादिभ्यो ण्यच् / [ 2 / 3 / 13 / 8 / ] तथा स्यात् / वक्रयप्प्रत्याहारार्थः // 13 // चोलादितो लुक् कुरु कुन्त्यवन्तेः स्त्रियामतोऽकेकयतोऽप् शिवादेः / ण्येञ् दर्भबाह्वादिदिशादितो ढण् निदुःष्वसुः छण् छ च वात्यचः पिः // 2 / 3 / 14 // (109) चोलादितो लुक् / [ 2 / 3 / 14 / 1 / ] तदर्थोऽआदिः / चोलः / [शकः / यवनः / कम्बोजः / केरल:] || (110) कुरुकुन्त्यवन्तेः स्त्रियाम् / [ 2 / 3 / 14 / 2 / ] लुक् स्यात् तु तदर्थः स्त्री चेत् / कुरुः, [कुन्ती, अवन्ती] स्त्री // (111) अतोऽकेकयतः / [2 / 3 / 14 / 2 / ] तथा तदर्थस्याकारस्य लुक् अकेकयादेः / मद्रस्यापत्यं स्त्री मद्री / शूरसेनी / दरत् / अतः किम् ? औदुम्बरी / केकयादेः / कैकेयी / प्राच्याऽत्रैव / पाञ्चाली / आङ्गी / पञ्चाह तान् दोधषट्पदीभ्याम् - स्तः पुरु शूरमसौ च कलिङ्गः व्यञ्मगधाविति शाल्वलिभागः / प्रत्यग्रथाऽश्मक वेत्कलकूट नृकुरु कोशल नादिरजादैत् // 1 // गान्धारिशाल्वेयविवर्जितं त्यज् वृच्चोलकम्बोजशकाः भवेयुः / स्यात् केवलोऽस्मिन् यवनो गणोऽयं स्यात् केकयप्राच्यसुरोऽथ भर्गः / कश्मीरसाल्वौ करूषस्तथैव सुस्थालकौरव्य च षट्पदी वृत् // 2 // तदपत्यं राजन्येऽर्थे / पौरवः / [पौरवौ / ] पुरवः / व्यच् / आङ्गः [आङ्गौ / अङ्गाः / ] वाङ्गः / [वाङ्गौ / वङ्गाः / ] सौह्मः / [सौह्यौ / सुराः / ] पौण्ड्रः / [पौण्ड्रौ / पुण्ड्राः / ] इति गणान्ते / साल्वांशा अमी -