________________ द्वितीयोऽध्यायः तृतीयः पादः 141 विधिः // . (97) च फञोऽस्त्रिव्रातात् / [ 2 / 3 / 12 / 4 / ] स्त्रि लघुः / नानाजातीया अनियतवृत्तय उत्सेधजीविनः सङ्घाः वाताः, तद्वाचिनः फजन्ताच्च व्यः स्याद्, अस्त्रि अस्त्री चेत् / कौञ्जायन्यः / [कौञ्जायन्यौ / ] कौञ्जायनाः / ब्राध्नायन्यः / [ब्राध्नायन्यौ / ब्राध्नायनाः / ] व्रातात् / [कापोतपाक्यः / कापोतपाक्यौ / ] कपोतपाकाः / हिमत्यः / [वैहिमत्यौ / ] व्रीहिमताः / अस्त्री किम् ? कौञ्जायनी / व्रीहिमता // (98) पर्वादितोऽणायुधजीविसङ्घात् / [2 / 3 / 12 / 5 / ] पर्वादेः शस्त्रजीविसङ्घवाचिनोऽस्त्रियां स्वार्थेऽण् स्यात् / पार्शवः / [पार्शवौ / पर्शवः / ] अस्त्री किम् ? पYः / अनेन्द्रवंशा - पशुर्दशा) भरतोऽसुराशनी वाह्लीककार्षापणवसुवयोमरुत् - / सत्वत्पिशाचाश्च त्रिगर्तरक्षसी सोशीनरास्ते स. गणः समापितः // 1 // (99) टेण्यण्वृकात् स्यात् / [2 / 3 / 12 / 6 / ] तथैव / वार्केण्यः / [वार्केण्यौ / ] वृकाः / वार्केणी / आयुधजीविसङ्घात् किम् ? वृक: श्वापदः / स्त्रियां चातः / (100) छ तु दामनिभ्यः / [ 2 / 3 / 12 / 7 / ] तथैव / दामनीयः / [दामनीयौ / ] दामनयः / इह वृत्तश्लोकौ - स्युर्दामनी कौष्टकिजालमानिकाकन्दिशाकुन्तकिसार्वसेनि - / कौञ्जायनाः जानकिब्रह्मगुप्ताभ्यावतिकौञ्चोऽपरश्चाश्वबिन्दुः // 1 // वैजवाप्याच्युतन्ति च सावित्रीपुत्र दण्डिकी / / मौञ्जायनोलपी स्यातामौदकि सुलभो गणः // 2 // // 12 / / वाहीकेऽविप्रराजन्याज्यट् स्याद् वाऽऽद्यात्तस्यापत्यम् / . राष्ट्राख्याद्राज्ञोऽञ् स्याद्राजाख्यव्यत्यस्तादण् पूर्वादेः / साल्वांशादेरिञ् पाण्डोर्यण् कुर्वादिभ्योऽण्यचुमाष्ठेयम् // 2 / 3 / 13 // षट्पदीगाथा // (101) वाहीकेऽविप्रराजन्याज्ञ्यट् / [2 / 3 / 13 / 1 / ] वाहीकेषु शस्त्रजीविसङ्घाद् अविप्रजातिराजन्यशब्दात् ज्यट् च नित्यं स्वार्थे / कौण्डीबृस्यः / [कौण्डीबृस्यौ / ] कौण्डीबृसाः / क्षौद्रक्यः / [क्षौद्रक्यौ / ] क्षुद्रकाः / मालव्यः / [मालव्यौ / ] मालवाः / कौण्डीबृसी स्त्री / वाहीके किम् ? शबर: / अविप्रराजन्यात् किम् ? गोपालिः / तथा राजन्यः / शस्त्रजीवि किम् ? मल्लाः / सङ्घ किम् ? सम्राट् वागुरः // (102) स्याद् वा / [ 2 / 3 / 13 / 2 / ] शस्त्रजीविसङ्घाद् यतोऽन्यः प्रत्ययो नोक्तोऽर्थात् ततोऽन्यद् वा स्यात् स्वार्थे / शबर एव शाबर्यः / पौलिन्द्यः / [पौलिन्द्यौ / पुलिन्दाः / ] शाबरी स्त्री / वेत्यायक् //