________________ 140 पञ्चग्रन्थी व्याकरणम् (90) अण् शर्कराभ्यः / [ 2 / 3 / 11 / 7 / ] इवे / शर्करेव शार्करम् [दधि मधुरत्वात्] / पुत्रः शतादिः शतपुत्र इत्यर्थः / (91) यः शाखाभ्यः / [ 2 / 3 / 11 / 8 / ] इवे / शाखेव शाख्यः / जघनं द्रुणी द्विवचनं जघन्यः / द्रव्यम् / अनयोस्तु षट्पात् - स्याच्छर्करा लोमकपालिके स्तः गोपुच्छनाराजिन्कपिष्टिकाः स्युः / स्यात् पुण्डरीको नकुलोष्टमायं पुत्रः शतादिः शतिकेति शाखा / स्कन्धो मुखोर:शरणानि शृङ्गं शिरोऽग्रमेघाः जघन द्रुणी वृत् // 1 // (92) आकस्मिके च्छः / [ 2 / 3 / 11 / 9 / ] इवे / काकतालयोरेवाकस्मिकं मीलनं काकतालीयमिदम् / अयमर्थः / काको निलीनोऽतर्किततालपातेन हतः / तथाऽन्यस्य वध: काकतालीय उच्यते / वर्तिका निलीनाऽन्धेन करणे प्राप्ता, तादृगन्यद् * अन्धवर्तकीयम् / श्येनकपोतीयम् / अजया भूमिं खनन्त्याऽऽत्मवधाय कृपाणो दर्शितः, तदिवान्यद् अंजाकृपाणीयम् // (93) कुशाग्रात् / [2 / 3 / 11 / 10 / ] इवे च्छः / कुशाग्रमिव कुशाग्रीया बुद्धिः, सूक्ष्मत्वात् / कुशाग्रीयं शास्त्रम् // 11 // वल्लोहितादेः ठठणेकशालाया ज्योऽस्कपूगाच्च फञोऽस्त्रि वातात् / .. पादितोऽणायुधजीविसङ्घा ण्यण्वृकात् स्याच्छ तु दामनिभ्यः // 2 / 3 / 12 // इन्द्रवज्रा / (94) वल्लोहितादेः / [ 2 / 3 / 12 / 1 / ] इवे स्यात् / दोधकवृत्तवितानमत्र - लोहितपाण्डरमण्डलगोणीशष्कलवल्गुखलानि उदश्वित् / कर्कहरी कुशलो मुनिबभ्रू स्याद् भरुजः कपिरङ्गुलिरत्र // 1 // तरस्तरू स्यादनिवे विशषहूस्वोऽप्युपायो विनयः कथञ्चित् / सन्देशने वागुपचारेऽकस्मात् स्यात् सम्प्रदानव्यवहारमेव // 2 / / समुत्कर्षसमाहारौ समूहसन्ततात्ययाः / अनुगादिः समयः स्याद् एवमाद्याकृतिगणः // 3 // लोहित इव लौहितिकः / अत्रेति लोहितादौ, अङ्गल्यादिरपि / अनिवेशविशेषादेः / हुस्वोप्युपायः / उपाय एव औपयिकः / सन्देशने वाक् / वाचिकं कथयति सन्देशमित्यर्थः / (95) ठठणेकशालायाः / [ 2 / 3 / 12 / 2 / ] अठे स्तः / एकशालिकः / ऐकशालिकः // (96) ज्योऽस्कपूगात् / [2 / 3 / 12 / 3 / ] सोऽस्य ग्रामणीत्यर्थे, सित् कः, स्क:, तत्कान्तवर्जितपूगात् / नानाजातीया नियतवृत्तयो धर्मकामप्रधानाः सङ्घाः पृगाः, तद्वाचिनः स्वाार्थे ज्यो नित्यं स्यात् / लोहध्वज्यः / [लोहध्वज्यौ / ] लोहध्वजाः / शैब्यः / [शेब्यौ / ] शिबयः / चातक्यः / [चातक्यौ / ] चातकाः / आस्वः किम् ? देवदत्तो ग्रामणीरेषां [त इमे] देवदत्तकाः / नित्योऽतो विधेः // अस्कः किम् ? देवदत्तो ग्रामणी एषां [त इमे] देवदत्तकाः / नित्योऽतो