________________ द्वितीयोऽध्यायः तृतीयः पादः 139 ध्वजचित्रनटेऽर्चाशिवे नरे पुष्पदेवयोः / देवाऽजराजशङ्कभ्य वारिशतात् पथे तथा / चामरज्जौ तथा हस्ते उष्ट्रग्रीवेन्द्रदण्डयोः // 6 // ध्वजे गरुड: कपिः सिंहः / चित्रेऽर्जुनः दुर्योधनः / नटे भीमः भरतः / अर्चासु शिवः / विष्णुः आदित्यः / इवार्थे नरे / चञ्चा इव चञ्चापुरुषः / पुष्पो पुष्पं, कुसुमं, पद्मम् / देवदेवः, सुरः असुरः / देवादेः पथे देवपथः // 6 // स्वार्थे लाट् च कः / कोने त्वनर्धार्थतान्तात् / ईषदूने, अर्धार्थवजितेऽन्यत्कान्तात् कः / ईषद् भिन्न भिन्नकम् / पटुच्छिन्नं छिन्नकम् / नार्धात् / अर्धच्छिन्नं सामिकृतम् इत्यादि // (81) कोने वा बहुट् / [ 2 / 3 / 10 / 6 / ] ईषदूनार्थाद् बहुः स्यात् / टिदाद्यर्थः / ईषदूनः पटुः बहुषटुः / बहुगुडं द्राक्षा / बहुतैलं प्रसन्ना / बहुयवागुर्भक्तम् / बहुवर्षा हेमन्तः / अर्थाः स्वतो लिङ्गवचनं नानुवर्तन्ते // ___ (82) कल्पब्देश्यब्देशीयः / [ 2 / 3 / 10 / 7 / ] तथैव / गुडकल्पा द्राक्षा / तैलदेश्या प्रसन्ना / कृतदेशीयः प्रासादः / स्वार्थाः स्वतो लिङ्गवचनान्यतिवर्तन्ते / पिद् अस्त्र्यर्थः // (83) अर्घ्य रूपप् / [2 / 3 / 10 / 8 / ] स्तुत्ये स्वार्थे रूपप् स्यात् / प्रशस्य तिड: तैडरूप्यः / चौररूप्यः पश्यतोहरः // 10 // तिङोऽशे ञ षष्ठाष्टमाणीक तीयादविद्या विवे लोहितात्कर्कतो वस्तितो ढञ् / अण् शर्कराभ्यो य शाखाभ्य आकस्मिके च्छ: कुशाग्राद् / / 2 / 3 / 11 // भुजङ्गप्रयातम् // (84) तिङः / [ 2 / 3 / 11 / 1 / ] तिङन्ताद् यथाविधि कल्पप्त्वादि स्यात् / ईषदसमाप्त पचति, पचतिकल्पम् / [पचतिदेश्यम् / पचतिदेशीयम् / ] अर्ये / पचतिरूपम् // . (85) अंशे ञ षष्ठाष्टमात् / [2 / 3 / 11 / 2 / ] ञः स्याद् अंशे भागे स्वार्थेऽतः / षष्ठो भागः षाष्ठः / [अष्टमो भागः] आष्टमः / (86) ट्णीक तीयादविद्या तु / [ 2 / 3 / 11 / 3 / ] ट्णीक् स्यात् तीयाद् अविद्या चेत् / द्वितीयमेव द्वैतीयीकम् / [द्वतीयकम् / ] तार्तीयिकी / [तार्तीयकम् / ] विद्या तु द्वितीया, [तृतीया] णित् / / . (87) इवे लोहितात्कर्कतः / [ 2 / 3 / 11 / 4 / ] इवेत्यर्थे ट्णीक् स्यादाभ्याम् / लोहित इव लोहितीकः स्फटिक उपाधेः / [कर्क:] / शुक्लाश्व इव कार्कीकः // (88) वस्तितो ढञ् / [23 / 11 / 5 / ] इवे / वस्तिरिव वास्तेयम् / वास्तेयी प्रणालिका॥ (89) शिलाया ढच्च / [ 2 / 3 / 11 / 6 / ] ढञ्चेवे / शिलेयम् / शैलेयं दधि / [शिलेयी / शैलेयी] //