________________ 138 पञ्चग्रन्थी व्याकरणम् (75) धैकादेः / [2 / 3 / 10 / 1 / ] धा स्यात् संख्यायाः / एकेन प्रकारेण एकधा / चतुर्धा / षड्धा // (76) वा षोढ़कध्यम् / [ 2 / 3 / 10 / 2 / ] [षोढा / ऐकध्यम् / ] निपात्यन्ते / (77) द्वित्रिभ्यां धैधाधंञः / [ 2 / 3 / 10 / 3 / ] तथा स्युः / द्विधा / द्वेधा / द्वैधम् / त्रिधा / [त्रेधा / त्रैधम्] || (78) धण् तद्वत् / [ 2 / 3 / 10 / 3 / ] तद्वत् प्रकारवद् वृत्तिभ्यां द्वित्रिभ्यां धण् स्यात् / द्वौ प्रकारौ येषां तानि द्वैधानि / त्रैधानि / (79) जातीर्यर् / [ 2 / 3 / 10 / 4 / ] प्रकारवद् वृत्तेः स्यात् / पटुत्वं प्रकारोऽस्य. पटुप्रकारः / पटुः स एव पटुजातीयः / मृदुत्वं प्रकारोऽस्याः मृद्वी / सैव मृदुजातीया / कः प्रकारोऽस्य किञ्जातीयः / अयं प्रकारोऽस्य इदञ्जातीयः / एवं ब्राह्मणजातीयः / प्रकारवद्विवक्षायां; केन प्रकारेण युक्तः कथंजातीयः / इत्थंजातीयः / एवंप्रकारा / एवंजातीयः / रेफोऽस्त्र्यर्थः / (80) स्थूलादेः कः / [ 2 / 3 / 10 / 5 / ] स्यात् तद्वत्यर्थे / इह त्रिवृत्ती आर्यविताने - स्थूलाणुमाषेषु तिलेषु. कृष्णः बाह्यासुरायामवदातकालौ / व्रीहौ यवोऽहौ तु सुराऽथ चञ्चः स्तः पत्रमूले तु समस्तव्यस्त // 1 // वस्त्रे तु गोमूत्र बृहत्यलिञ्जर: चञ्चगृहच्छालिषु जीर्णमण्यपि / / पुत्रः कुमार्याः श्वसुरोऽप्यतद्वति रक्तास्थिरे कालमणौ च लोहितः // 2 // क्षेपेऽध्वजातेः प्रतिच्छन्दनाम्नो लट् चास्थिकोके त्वनर्धार्थतान्तात् / यावेष सूस्तब्धमणी च पीतः ज्ञातेतरप्रष्ठभवन्तिमाने // 3 / / शीतोष्णे द्वे सूक्रतौ निपुणोऽणुयसौ वियातलू चेत् / . बहुतरसुकरतरौ स्तः पुण्यस्तातौ तु वेदान्ते // 4 // कृत्रिमे पूत्रसूत्रे तु तन्तुदानं तु कुत्सिते / शून्यरिक्ते तु कन्द्वादेः क्रीडार्थात् कन्दुको यथा // 5 // स्थूलत्वविशेषयुक्तः / स्थूलकः / अणु माष इषवः त्रयोऽन्येऽणुः माषेष्वर्थेषु / अणुकः / अणो इक्षु पचन्ति / तिलेषु कृष्णश्च / इक्षुकः / तिलाः कृष्णकाः तिलाः / एवं बाह्यासुरायाम् / अवदातकालौ चान्ये / व्रीहिषु यवः / अहौ सुरा / पत्रमूले समस्तव्यस्ते / पत्रमूलकः / पत्रकः / मूलक: / वस्त्रे आच्छादने गोमूत्रः / जीर्णः शालिपु / पुत्रः कुमार्या इति / कुमारीपुत्रश्च / अत ऊर्ध्वम् अतद्वतिको वा स्यात् / रक्त अस्थिरेऽनित्येऽर्थेऽत्र कालकोलको रागविशेषेण पटः / कालक: कोपेन / मणौ च रक्तास्थिरे च लोहितोऽत्र लोहितको रागेन कोपेन वा मणिर्वा / क्षेपे क्षिप्यतेऽनेन / तवृत्तेश्च / व्याकरणेन त्वं गर्वितः / याज्ञिका केन ? अध्वजादेः / प्रतिच्छन्दनाम्नोः / तदाकारवृत्तेः संज्ञायां च / अश्वप्रतिच्छन्दकं काष्ठादिमयम् अश्वकः / हस्तिकः / गन्त्रिका / नाम्नि / शूद्रक: इत्यादि / ध्वजादेन / अत्र षट्पदी -