________________ द्वितीयोऽध्यायः तृतीयः पादः 137 पर्वतादवरोहति / कित् किम् ? भूमित उज्जिहीयते / उद्वायते वा, अर्थाद् भावाप्ये / कर्तरि तु, सार्थं जहाति // 8 // सर्वाद्विबहोरत्पिदनोर्डसेराद्यादेः सुपस्त्रब्भवदादिभिस्तौ / दैकान्ययत्सर्वतदस्तु काले वाऽनद्यहिप् तेन च था प्रकारे // 2 / 3 / 9 // वृत्तम् // (68) सर्वाद्विबहोरत्पिदनोर्डसेः / [2 / 3 / 9 / 1 / ] द्व्यादिवर्जसर्वादेर्बहोश्च अदन्तस्यादनोरथाद् बहोर्डस्यान्तात् तस् स्यात् / पिदाग्रहर्थं वचः / सर्वतः / ततः / बहुतः / बह्वीभ्यो बहुतः हीयते, अवरोहति वा / बहोः सूपात् / विपुलार्थत्वान्न / सर्वात् किम् ? द्वाभ्यां हीयते / पिदस्त्र्यर्थः // (69) आद्यादेः सुपः / [2 / 3 / 9 / 2 / ] तस् स्याद्, आदौ आदितः, द्वित्येह / आदिर्मुखमध्ये, अतः परि सूत्रे पृष्ठस्त्वभि पावें / अग्रोक्ति / [पृष्ठोक्ति / ] यथेष्टम् // (70) त्रप् / [2 / 3 / 9 / 3 / ] सर्वस्वहोः सुपः सप्तम्यन्यात् त्रप् स्याद् अद्व्यतोः सर्वस्मिन् सर्वत्र / तत्र बहीषु बहुत्र / सर्वस् किम् ? द्वयोः // (71) भवदादिभिस्तौ / [2 / 3 / 9 / 4 / ] श्लोकोऽत्र - भवदीर्घायुष्मान्देवानांप्रियायुष्मता युतात् / प्रादिरस्त्रेति सिद्धेऽत्र सुपसूत्रपौ यथा // 1 // स भवान् / ततो भवान् / तत्रभवान् / एवं तं ततः [भवन्तम्] / तत्रभवन्तम् / तेन भवता / तस्मै भवते / तस्य भवतः / तस्मिन् भवति / एवं स दीर्घायुः / [तं दीर्घायुषम् / तेन दीर्घायुष्मता / तस्मै दीर्घायुप्मतो / तस्य दीर्घायुष्मतः / तस्मिन् दीर्घायुष्मति / ] स देवानांप्रियः [इत्यादि] स आयुष्मान् [इत्यादि] / एवं कः, कुतः, क्व, कुत्र भवान् इत्यादि / एवम् अयम् इतोऽत्र इह भवानित्यादि / (72) दैकान्ययत्सर्वतदस्तु काले / [2 / 3 / 9 / 5 / ] दा स्यात् सप्तम्यन्ताद् एकादे: कालेऽर्थेऽस्वान्तः / एकस्मिन् काले एकदा / [अन्यस्मिन् काले अन्यदा / यस्मिन् काले यदा / सर्वस्मिन् / काले सर्वदा / तस्मिन् काले तदा // (73) वाऽनद्यर्हिप् / [2 / 3 / 9 / 6 / ] हि लघुः सप्तम्यन्ताद् वा हिप् स्यात् / अनद्य अद्यवर्जितकाले सर्वस्बहोरन्वानोः / बहुषु / बहुहि / बहुत्र / एतस्मिन् काले एतहि / अत्र ते निपात इदम् अद्यतनार्थम् / अमुहि / अमुत्र / अद्यतने तु [यस्मिन् काले] यदा // (74) तेन य था प्रकारे / [ 2 / 3 / 9 / 7 / ] तेनेति तृतीयान्तात् सर्वस्वहोः था स्यात् प्रकारेऽर्थेऽस्वानोः / सर्वैः प्रकारैः सर्वथा / तेनग्रहणात् सुप्कालौ निवृत्तौ // 9 // धैकादेर्वा षोडैकध्यं द्वित्रिभ्यां धैधाधंो धण् / तद्वज्जातीयस्थूलादेः कः कोने वा बहुट्कल्पप् / देश्यब्देशीयोऽयं रूपप् // 2 // 3 / 10 // पञ्चपात् // * पञ्च.-१८