________________ 136 पञ्चग्रन्थी व्याकरणम् प्राङ् प्राचीनः / तिर्यक्, तिरश्चीनम् / अदिक् स्त्री किम् ? प्राची दिक् / दिक् किम् ? प्राचीना ब्राह्मणी / स्त्री किम् ? प्रादिग् रमणीयम् / प्राचीनं दिग् रमणीयम् // (58) गोष्ठात् खञ् भूतादावर्थे / [ 2 / 375 / ] भूतादौ भूतपूर्वेऽर्थे गोष्ठात् खञ् स्यात् / भूतं पूर्वं तद् अस्मिन् वा तत्रार्थे गोष्ठाद् भूतपूर्वः / गोष्ठीनो देशः / अभूतपूर्वे / गोष्ठो वर्तते // 7 // चरड्डसो रूप्य च व्याश्रये तु त: रोगाच्चिकित्स्येऽव्यथनिन्द्यसुग्रहे / र्टः पापहेये न अकर्तुरेकदिगन्योरसः प्रत्यवधेरहोग्रहोः // 2 // 38 // उपजातिः // (59) चरट् / [ 2 / 3 / 8 / 1 / ] भूतपूर्वार्थवृत्तेश्चरट् स्यात् / आढ्यो भूतपूर्वः आढ्यचरः / आढ्यचरी // (60) ङसो रूप्य च / [2 / 3 / 8 / 2 / ] षष्ठ्यन्तात् तथा रूप्य च चरट् च स्यात् / नुभूतपूर्वो गौः नृरूप्यः / नृचरो गौः // (61) व्याश्रये तु तस् / [ 2 / 3 / 8 / 3 / ] व्यालब्धः नानापक्षाश्रयो व्याश्रयः, तदर्थं षष्ठ्यन्तात् तस् स्यात् / देवा अर्जुनस्य पक्षेऽभवन्, अर्जुनतोऽभवन् / आदित्याः कर्णतः / व्याश्रये किम् ? नु!ः // (62) रोगाच्चिकित्स्ये / [2 / 3 / 8 / 4 / ] रोगवाचिनस्तस् स्यात् प्रतिकारेऽर्थे / प्रवाहिकातः प्रतिकुरु / रोगात् किम् ? शत्रोः प्रतिकुरु / चिकित्स्ये किम् ? तस्याः कोपं कुरु // (63) अव्यथनिन्द्यसुग्रहे र्टः / [2 / 3 / 8 / 5 / ] अचलननिन्दासुष्टुग्रहणे सर्वेषु टर्टोऽकर्तुरिति, अकर्तृविहिततृतीयान्तात् तस् / वृत्तेन न व्यथते / वृत्ततो न चलति / न क्षुभ्यतीत्यर्थः / वृत्ततः क्षिप्तः / आचारेण निन्दितः / [आचारतः निन्दितः / ] वृत्ततोऽतिगृह्यते / सुष्ठ वृत्तवान् / [आचारतोऽतिगृह्यते / सुष्ठ आचारवान् / ] एषु किम् ? दात्रेण लुनाति / [अ]कर्तुः / [किम् ?] ना क्षिप्तः // (64) पापहेये न अकर्तुः / [ 2 / 3 / 8 / 6 / ] पापेन हीयमानेन च युक्तात् अकर्तृट: तस् / चरित्रतः पापः / हीयते वा [चारित्रेण / ] एवं वृत्ततः [वृत्तेन वा] / मन्त्रतः [मन्त्रेण वा] / स्वरतो, वर्णतः / कर्तुः / ना हीयते // (65) एकदिगण् / [ 2 / 3 / 8 / 7 / ] अण् / तेनैकदिक् समानदिक् च इत्यर्थेऽण् स्यात् / तश्च वर्तते / सुदाम्ना समानदिक् सुदामनो विद्युत् / सौदामिनी वा / एवं हिमवतो [हैमवती / ] तत्तः / (66) योरसः / [ 2 / 3 / 8 / 8 / ] तसणौ वर्तते / उरसैकदिक् उरस्तः / औरसः / उरस्यः / (67) प्रत्यवधेरहाग्रहोः / [ 2 / 3 / 8 / 9 / ] ईसेरिति सम्बन्धात्, अर्थाद् अतिना युक्तात् पञ्चम्यन्ताद् अहाक्, रुहक्रियावधेश्च तस् स्यात् / अभिमन्युरर्जुनाद् अति / अर्जुनतः प्रति / तिलेभ्यो माषा अति / प्रयच्छति तिलतः प्रति / अवधेः / यामतो गतः / प्रासादतः प्रेक्षते / द्वितः / तत्तः त्वत्तः / युष्मत्तोऽधीते / अहाग्रहोः किम् ? सार्धाद्धीनः / सार्धाद्धीयते / नात्र वा / रुहेर्वा /