________________ द्वितीयोऽध्यायः तृतीयः पादः 135 (52) पुरस्तादाद्यादयः / [ 2 / 3 / 6 / 8 / ] पुरस्ताद् आदयस्तथैव / आद्यादयः कालमात्रे, पार्थक्यात् / तयोस्तु वृत्ते - पुरस्तादधस्तादधोऽधः पुरश्चोपरिष्टादुपर्यद्यपश्चादिगादि / परायैषमः स्तः परुत्सद्यसौ चोभयद्युस्तदानीं सदा एतदत्र // 1 // . पूर्वापरान्याद्यतरेतराधरोत्तरोभयादेधुसथो परेद्यविः / कीहकुत्रक्वकदाकुहेहेदानीं च एती धुना इतोऽतः // 2 // पूर्वापराधराणां पुरस्तादाद्याः [=पुरस्तात्, अपरस्तात्, अधरस्तात् / व्यत्ययो नैषाम् / अधस् आद्याः पुरस्तात् / ऊर्ध्वस्योपरिष्टात्, उपरित् / अस्मिन्नह्नि अद्य / अवरस्मिन् पश्चात् / तथा दिगादिः / दक्षिणपश्चात् / उत्तरपश्चात् / पूर्वपरतरस्मिन् / [उत्तरपरतरस्मिन्] संवत्सरे / परारि / अस्मिन् / ऐषमस् / परस्मिन् / परुत् / समानेऽह्नि सद्यस् / उभयस्मिन् उभयेधुः / तस्मिंस्तदानाम् / सर्वस्मिन् / सदा / एतस्मिन्नस्मिन् वाऽत्र // 1 // पूर्वादेः एद्युस् / पूर्वस्मिन्नह्नि पूर्वेद्युः / [अपरेधुः / अन्येद्युः / अद्यतरेयुः / इतरेयुः / अधरेयुः / उत्तरेयुः / उभयेयुः / ] परस्मिन् परेद्यवि / कस्मिन् काले कहि / अस्मिन्निह / अस्माद् इतः / अतश्च / एतस्माद् अतः // 2 // (53) मङ्गलकारकाच्छस् / [ 2 / 3 / 6 / 9 / ] [उत्तरार्थम्] // 6 // बह्वल्पार्थात् संख्यैकार्थाद् वीप्सायां संख्यादेर्दण्ड - / त्यागेऽकल्चेत् खोऽञ्चोऽदिक्स्त्री गोष्ठात् खञ् भूतादावर्थे // 2 // 37 // विद्युन्माला // (54) बह्वल्पात् / [ 2 / 3 / 7 / 1 / ] मङ्गलकारकाद् बह्वल्पार्थाद् वा शस् स्यात् / बहूनि [ददाति] / अल्पं ददाति / बहुशोऽल्पशो वा ददाति / एवं भूरिशः / स्तोकशः / बहुभिः [बहुशः, अल्पैः, अल्पशो वा] भुक्तम् / दात्रैलुनाति वा [बहु, बहुशः, अल्पं, अल्पशः / ] बहुभ्यो ददाति, आगतो वा [बहुशः, अल्पशः / ] बहुषु, [बहुशः, अल्पेषु, अल्पशः] वसति / मङ्गलार्थात् किम् ? 'बहूनि श्राद्धानि ददाति, अल्पं [ददाति], आभ्युदयिकं [कर्म] / कारकात् किम् ? बहूनां स्वामी / बह्वल्पार्थात् किम् ? गां ददाति // (55) संख्यैकार्थाद् वीप्सायाम् / [2 / 3 / 7 / 2 / ] संख्यावाचिन एकविषयाच्च कारकाच्छस् स्यात् / द्वौ द्वौ ददाति, द्विशः / आभ्यां माषं माषं ददाति, माषशः / पटं पटं ददता पटशो दत्तः वासोराशिः / क्रमेण [क्रमेण] क्रमशः / वनशः प्रविशति / एकैकशः, एकैकसंख्याया वीप्सायां शस् / क्वचिन्नासामर्थ्यात् / देवस्य पादं पादं पूजयति / वीप्सायां किम् ? द्वौ ददाति / कारकात् किम् ? द्वयोः स्वामी // (56) संख्यादेर्दण्डत्यागेऽकल् चेत् / [2 / 3 / 7 / 3 / ] दण्डत्यागयोर्वीप्सायां च संख्यापूर्वाद् अकल् स्यात् / इल्लुगत् तस्यानिमित्तस्यापादस्य यदर्थम् / द्वौ पादौ दण्डितः द्विपदिकां दण्डितः / एवं त्रिशतिकां त्यजति / वीप्सा / द्वौ द्वौ माषौ, द्विमाषिकां गृह्णाति / लित् स्त्र्यर्थः // (57) खोऽञ्चोऽदिक स्त्री / [ 2 / 3 / 7 / 4 / ] अञ्चत्यन्ताद् अदिक्स्त्र्यर्थात् खः स्यात् /