________________ 134 पञ्चग्रन्थी व्याकरणम् (40) द्विचतुस्त्रितः सुच् वारे / [ 2 / 3 / 5 / 3 / ] एभ्यः सुक् स्याद् वारे कृपागणनविशिष्टे स्वार्थे / द्वौ वारौ [अस्य द्वि:], द्विर्भुङ्क्ते / चतुर्भुङ्क्ते / त्रिर्भुङ्क्ते / इह तु द्विस्तावान् प्रासादः / द्विर्दशेति / गम्यमानेऽपि वारे / सि सुचः चिह्नार्थः // (41) सकृत् / [ 2 / 3 / 5 / 4 / ] निपात्यते, एकवारेऽर्थे / (42) कृत्वसितादृगन्यात् / [ 2 / 3 / 5 / 5 / ] व्याद्यन्यसंख्यायाः कृत्वसि स्याद् वारे / पञ्चकृत्वोऽह्नि भुङ्क्ते / पटु कतिगणात् तथा / इदित् // (43) वा धा त्वदूरे बहुतः / [ 2 / 3 / 5 / 6 / ] धा स्याद् वा बहोरदूरोपाधिके स्वार्थे / दिवसस्य बहून् वारान् भुङ्क्ते / बहुधा / बहुकृत्वः / दूरे च / [बहु] कृत्वो मासस्य भुङ्क्ते // (44) दिगाख्या दिग्देशकालेऽपि च एन ङीयॊः / [2 / 3 / 57 / ] सप्तमी प्रथमान्तात् एन वा स्याद् दूरे पूर्वत्र दिगादौ / अविप्रकृष्टो वसति पूर्वेण / पुरस्ताद् वा ग्रामस्य वसति / पूर्वा दिगादिः रमणीयम् / पूर्वेण रमणीयम् / आख्या किम् ? ऐन्द्यां [दिशि] वसति / [ऐन्द्ये देशे वसति / ] ङीसोंः किम् ? पूर्वं तं गतः / दिगादौ किम् ? पूर्वस्मिन् गुरौ वसति / दूरे / पूर्वत्र // 5 // आ दक्षिणाद् आहि च दूर उत्तरार्धो ईसेश्चादधराच्च तस्तात् / __ परावरादञ्च इतौ पुरस्तादद्यादयो मङ्गलकारकाच्छस् // 2 // 36 // उपजातिः // (45) आ दक्षिणात् / [ 2 / 3 / 6 / 1 / ] वा स्याद् दिगादौ, अदूरे ङीयॊः / ग्रामाद् दक्षिणा वसति / दक्षिणेन वाऽस्य / दक्षिणा, दक्षिणेन [वा] रमणीयम् / देशे चैवंम् // (46) आहि च दूरे / [ 2 / 3 / 6 / 2 / ] दक्षिणात् तथैव आहि स्याद् दूरे, आवत् / दक्षिणाहि [रमणीयम् / ] च // ___(47) उत्तरात् / [ 2 / 3 / 6 / 3 / ] तथैवाहि आ स्तः, दक्षिणवत् / [उत्तराहि वसति / उत्तरा रमणीयम् / ] दूरे किम् ? उत्तरेण // (48) हुतो ईसेश्च / [2 / 3 / 6 / 4 / ] दक्षिणोत्तराभ्यां ङसिर्डीस्वन्ताभ्यां तथाऽतस् स्यात् / ग्रामस्य दक्षिणतः, [उत्तरतः वा] आगतः, वसति, रमणीयम् / पृथग् दूरादूरार्थम् / (49) आदधराच्च / [2 / 3 / 6 / 5 / ] आभ्यां च तथा / आत् स्यात् / ग्रामस्याधरात् / [दक्षिणात्, उत्तरात्] आगतः / हु श्रुत्यर्थः // (50) तस्तात् परावरात् / [2 / 3 / 6 / 6 / ] परावराद् एकैकस्मात् तथैव तस्स्तात् स्तः / परतः, परस्ताद् वा [अवरतः, अवरस्ताद् वा] आगतः // (51) अञ्च इतौप् / [ 2 / 3 / 67 / ] दिशाख्याद् अञ्चत्यन्तात् तत्त्वात् तस्स्तातौ स्तः, तौ च इतौप् / लुक् स्तः / पिद् अस्त्र्यर्थः / प्राच्या दिशः, प्राग् आगतः / [अपाक्], प्रत्यग्, उदक्, आगतः //