________________ द्वितीयोऽध्यायः तृतीयः पादः 133 वत्सक त्वकम् एहकि / उत्सङ्गके उपविश / कण्टकक / अलग्नकः / ओदनकं भोक्ष्यसि / तन्त्रीतावकृपायामपि // (29) नराख्याच्च / [2 / 3 / 4 / 2 / ] नृनाम्नस्तयोः कः स्यात् / दत्तकः / व्याघ्रकः // (30) चादीत्पदं बह्वचः / [2 / 3 / 4 / 3 / ] नाख्याद् बहुत्वयोः कः, तत्र चादिपदं पूर्वपदमिल्लुक् स्यात् / अनुकम्पितो देवदत्तो दत्तकः / अबह्वचः / भूपकः // (31) घेलठाः स्युः / [ 2 / 3 / 4 / 4 / ] तथैव / तत्रेत्पदं नित्यं, पार्थक्यात् / दत्तियः / दत्तिलः / दत्तिकः / अबह्वचः / भूपकः / (32) षषोऽचः द्वितीयात् परा / [ 2 / 3 / 4 / 5 / ] तथैव किन्तु षषो यो द्वितीयोऽच् ततः परभाग इक् स्यात् / अनुकम्पितः षडङ्गलिदत्तः षडियः / [षडिकः / षडिलः / ] षड्मुखदत्तः / षड्मवियः / षड्मुकः // (33) एचाचः / [ 2 / 3 / 4 / 6 / ] तथैव, किन्वेषु परभाग एवापूर्वेण सह इक् स्यात् / लहोड: / लहियः / लहिकः / कपोतकः / कपियः // (34) एकाज्विशालादितश्च / [2 / 3 / 4 / 7 / ] तथैव, एभ्यः परभाग इक् स्यात् / वागाशीर्दत्तः / वाचियः / [वाचिकः / वाचिलः / ] त्वचियः / [त्वचिकः / त्वचिलः / ] विशालदत्तः / विशालियः / [विशालिकः / विशालिलः / ] विशाल / वरुण / सुपरि / अर्यमन् / शेवल / आकृतित्वादपठ्यं पृथगेकाच्च // . (35) ओरिलो लः / [2 / 3 / 4 / 8 / ] उवर्णात् परः प्रागुक्त इलः लः स्यात् / भानुदत्तः / भानुलः / वसुलः / षड्मुखदत्तः षड्मुलः // (36) अजिनान्ते कन् / [ 2 / 3 / 4 / 9 / ] तथा कन् स्यात् / अजिनान्ते शब्दे पूर्वपदापेक्षया ..परभाग इत् स्यात् / व्याघ्राजिनः, व्याघ्रमहाजिनो वा, व्याघ्रकः / सिंहकः / निन्दित्वाभावार्थः / व्याघ्रकः // (37) एते / [ 2 / 3 / 4 / 10 / ] कन् घेलठाः स्युः / तत्र परपदमित् / देवदत्तः, [देविकः, देविलः, देवियः / ] याज्ञिकः, [याज्ञिलः, यज्ञियः, यज्ञदत्तः / ] वायुकः, [वायुलः वायुयः, वायुदत्तः / ] पितृकः, पितृलः, पितृयः, पितृदत्तः] // 4 // डोपाच्च वैकं द्विचतुस्त्रितः सुज्वारे सकृत् कृत्वसितादृगन्यात् / बाधाच्च दूरे बहुतो दिगाख्याद् दिग्देशकालेऽपि च एन डीसैः // 2 // 35 // वृत्तम् // (38) डोपाच्च / [ 2 / 3 / 5 / 1 / ] डश्चोपात्, व्राख्याद् बह्वचः कृपातन्नीत्युपाधिके स्वार्थो डश्च कन् घेलठाश्च स्युः / तेषु चोपात् परभाग इत् स्यात् / अनुकम्पित उपेन्द्रदत्तः उपड: // . (39) वैकम् / [ 2 / 3 / 5 / 2 / ] चाख्याद् बह्वच एकं पदं पूर्वं परं वेत् स्यात् / देवदत्तः, दत्तः, देवः / सत्यभामा, भामा, [सत्या] / भीमसेनः, भीमः, [सेनः] ||