________________ 132 पञ्चग्रन्थी व्याकरणम् [स आगच्छतु] // (18) आदि जात्या बहुत्वे / [ 2 / 3 / 3 / 2 / ] यत्तदोर्बहुषु मध्याज्जात्या निर्धार्याद् आदीति डतमप् स्यात् / भवतां यो यतमो वा कठः स ततमो वाऽऽगच्छतु / अजातिबहुत्वे / यो भवतां पटुः [कठः] / पटुतरो भवतोः कठः // (19) अश्वगन्त्यात् पुरः / [ 2 / 3 / 3 / 3 / ] यत्तदोर्बहुषु मध्यान्निर्धार्याद् इतश्चाक्षु- . मध्येऽन्त्यादचः पुरोऽक् स्यात् / भवतां यो यको वा कठ: स सको वाऽऽगच्छतु // . (20) अज्ञातकु त्स्याल्पहूस्वे तिङः / [2 / 3 / 3 / 4 / ] हू[स्वो] लघुः / विशेषरूपेणाज्ञाताद्यर्थे तिङन्तस्य तथाऽक् स्यात् / कस्यायं, किं चायं, पचति, पचतकि ? एवं कुत्सितं [पचति, पचतकि] / अल्पं [पचति, पचतकि] / हुस्वकालं वा [पचति, पचतकि] / एषु किम् ? पचति // (21) सर्वलः / [ 2 / 3 / 3 / 5 / ] सर्वादेरसुपस्तथाऽक् स्यात् / कस्य भवन्तः, भवकन्तः ? कुत्स्याय / सर्वस्मै / सर्वकस्मै / [युवयोः] / युवकयोः / [युष्मासु / ] युष्मकासु / अज्ञातादी किम् ? सर्वः / वा / (22) सुप्त्वङः / [ 2 / 3 / 3 / 6 / ] त्वङ्प्रत्याहारस्य सुबन्तस्यैव तथाऽक् स्यात् / त्वकम् / अहकम् / मयकि / त्वकत्पुत्रः / [मकत्पुत्रः / ] त्वकपितृकः / [मत्कपितृकः / ] नियमार्थं वचनम् // (23) सोः / [ 2 / 3 / 37] प्रथमैकवचनान्तस्य सर्वादेस्तथाऽक् स्यात् / अयकम् / इयकम् / ककिं वा निपात्यते, सौ परेऽनगर्थकः // (24) चादेः क्षि / [ 2 / 3 / 3 / 8 / ] चादेस्तथाऽक् स्यात् / क्षिचाकद् वा स्यात् / उच्चकैः / धिक् / धकित् / हिरुक् / हिरकुत् / [पृथक् / ] पृथकत् / / (25) तूष्णीमकाम् / [2 / 3 / 3 / 9 / ] तूष्णीमो मकार्थी तथा काम् स्यात् / तूष्णीकामास्ते / / (26) कस्तु शीले / [2 / 3 / 3 / 10 / ] तूष्णीमो म तथा कः स्याच्छीलेऽर्थे / तूष्णींशीलः / तूष्णीकः // __ (27) कचाम् / [2 / 3 / 3 / 11 / ] अन्याज्ञातादौ क स्याद् अर्थादन्येभ्यः / कस्यायम्, किं मम वाऽश्व:, अश्वकः / अल्पे, तैलकम् / हूस्वे, पटकः // 3 // कृपानीततस्तौ नराख्याच्च चादीत्पदं बह्वचो घेलठाः स्युः षषोऽचः / / द्वितीयात् परैचाच एकाज्विशालादितश्चौरिलोलोऽजिनान्ते कनेते // 2 / 3 / 4 // भुजङ्गप्रयातम् // (28) कृपानीततस्तौ / [ 2 / 3 / 4 / 1 / ] कृपायां तत्सांनिध्यात् कृपापूर्वे ·च सामोपप्रदाने नीतिः, तत्र च तौ अक्कौ स्तो यथाविधि / स्वपितकि / पुत्रक दुर्बलक बुभुक्षितक / तन्नीतौ /