________________ 131 द्वितीयोऽध्यायः तृतीयः पादः प्रकर्षवतां प्रकर्षे श्रेष्ठतमः, प्रकृष्टतमः // 1 // तरप्वेव निर्धार्यतः किन्ति चादितो डाम् क्रियायां तबिष्ठेयसू वा / गुणात् काकिनावेकतोऽस्वामिनो डादि निर्धायतः स्यात् किमः प्रच्छनेऽन्त्यः // 2 / 3 / 2 // भुजङ्गप्रयातम् // (11) तरप्त्वेव निर्धार्यतः / [ 2 / 3 / 2 / 11] द्वयोरेक: स्यान्निर्धार्य विभज्येऽर्थे प्रकर्षे तर प्राक्सात् / अयमनयोराढ्यतरः / तस्यायमभिरूपतरः / ह्यः पटुरासीत्, अद्य पटुतरः / नृणां देवानां [च] देवाः पूज्यतराः / दन्तोष्ठस्य दन्ताः स्निग्धतराः / अवस्थाजातिभेदात् निर्धार्यात् / ततोऽयं पटुतरः / तत्रत्येभ्योऽत्रत्या उभयाभ्यामीश्वराः सुकुमारतराः / उक्तात् किम् ? ग्राम्यणां नागराणां च नागराः पटुतमाः / अत्र जातौ बहुत्वम् // (12) किन्तिडे चादितो डाम् क्रियायां तप् / [2 / 3 / 2 / 2 / ] किमादेः क्रियावृत्तेः यथाविधि, तबिति तरप् तमप्, डाम् स्यात् डिदन्तार्थे / किन्तरां करोति / पचतितमाम् / [पचतितराम् / ] पूर्वाह्नतमाम् / [पूर्वाह्नेतराम् / ] भुङ्क्ते / उच्चैस्तमाम्, [उच्चस्तराम्] अधीते / क्रियायां किम् ? उच्चस्तरो वृक्षः / (13) इष्ठेयसू वा गुणात् / [2 / 3 / 2 / 3 / ] तप्प्रसङ्गे गुणवाचिन इष्ठेयसू वा स्तः / परिष्ठः / पटुतमः / पटीयान् / पटुतरः / श्येतिष्ठाः / श्येतितमाः / गुणात् किम् ? गोतमः / उदिग् इत्कार्यार्थः // (14) काकिनावेकतोऽस्वामिनः / [ 2 / 3 / 2 / 4 / ] अस्वामिनोऽसहायादेकात् क-आकिनौ स्तः / एककः / एकाकी / एकाकिभिः क्षुद्रकैर्जितम् // (15) डादि निर्धार्यतः / [ 2 / 3 / 2 / 5 / ] एकान्निर्धार्येऽर्थे एकवचनान्तत्वात् तप् स्यात् डादि / डतमप् डतरबित्यर्थः / भवतोर्भवतां वा एक: एकतमः, एकतरो वा कठः / एवमत्र कुले प्रधानं, पटुः, गाता, ना वा // ... (16) स्यात् किमः प्रच्छने / [2 / 3 / 2 / 6 / ] पृथग्योगाद् उत्तरत्र द्वयोर्ग्रहणाद् बहुषु मध्यान्निर्धार्यात् प्रश्नविषये किमस्तौ स्तः / भवतां कः कतमः कतरः [वा] कठः / अनिर्धार्यप्रश्ने / को भवतां स्वामी, कठो वा ? // - [17] अन्त्य इत्युत्तरार्थम् // 2 // यत्तदश्च द्वयोर्वादि जात्या बहुत्वेऽश्वगन्त्यात् पुरोऽज्ञातकुत्स्या- / ल्पहस्वे तिङः सर्वलः सुप् त्वङ सोः क चादेः क्षि तूष्णीमकां कस्तु शीले कचाम् // 2 / 3 / 3 / / स्त्रग्विणी // (17) यत्तदश्च द्वयोः / [2 / 3 / 3 / 1 / ] यत्तत्किम्भ्यो द्वयोरेकस्मानिर्धार्यादन्ता इति डतरडतमप् स्यात् / भवतोर्यः यतर: कठः [ततर आगच्छतु / कतरो भवतोः कठः / ] स ततर आगच्छतु / कः [कतर:] गार्ग्यः [स ततर आगच्छतु / ] द्वयोः किम् ? यो यस्मिन् कुले प्रधानः