________________ 130 पञ्चग्रन्थी व्याकरणम् जाह ति एतौ प्रत्ययौ स्तः / कर्णस्य मूलं कर्णजाहम् इत्यादि / शम्यादिकर्णादी षट्पद्योच्यते शमीकुवलकर्कन्धुबदराश्वत्थपीलवः / करीरखदिरौ भ्रूश्च कणाक्षि तु नखं मुखम् / केशपादौष्ठशृङ्गाणि गुल्फदन्तौ च पृष्ठ वृत् // 6 // तथा पक्षतिः / तिलादीनां रज इत्यर्थे कटः स्यात् / तिलानां रजः तिलकटम् / अलाबूमाभाषभङ्गाणुभ्य आकृतित्वात् / [अलाबूकटम् / उमाकटम् / माषकटम् / भङ्गाकटम् / अणुकटम् / ] तस्य सह इत्यर्थे वातबलाद् ऊलः, हिमात् एलुः / वातस्य सह: वातूलः / [हिमस्य सह:] हिमेलुः // नेति नसह इत्यर्थे शीतोष्णतृप्राणाम् आलुः / शीतालुः / [उष्णालुः / तृप्रालुः / ] असहे पृथग्भावेऽर्थे / नविभ्यां नाना एतौ स्तः / नाना / विना / ससाधनक्रियावचनात् / प्रादेः वेः शङ्कट शाल एते स्तः / विगते शृङ्गे विशङ्कटे / विशाले / तद्योगाद् गौश्च विशङ्कटः, [विशालः] / सम्प्रोन्नैः वेश्च कटम् / सङ्कटम् / [प्रकटम् / उत्कटम् / विकटम् / ] कुटारश्चावात् / अवकटम् / [अवकुटारम् / ] नमनेऽर्थेऽवात् टीटभ्रटनाटाः स्युः संज्ञायाम् / नासनत अवरीटम् / [अवनाटम् / अवभ्रटम् / ] तद्ययोन्नासोऽपि, पुरुषोऽपि तथोच्यते / निः कार्टी चिक् चि स्यात् ताभ्यां क्रमेण क इनो पिटः स्तः / नासानतं, चिकिनं, चिपिटम् / तद्योगानासापुरुषौ तथा / नेबिरीसबिडौ स्तः / नासानतं निबिरीसम् / निबिडम् / कथं निबिडाः केशाः, निबिडं वस्त्रम् ? उपमानात् / अध्युपाभ्यां त्यका पर्वतस्योपरि भूमिः / अधित्यका / तदासन्ना उपत्यका / के अदिन्न स्यात् त्यिकेत्यक्रते, क्लिन्नाक्षि चेत् / क्लिन्ने चक्षुषि चिल्लपिल्लचुल्लाः निपात्यन्ते / क्लिन्न [शब्दस्य] चिल पिल चुल इत्यादेशः क्रमेण] स्यात्, लप्रत्ययश्च / क्लिन्ने चक्षुषी चिल्ले, [पिल्ले, चुल्ले] / तद्योगात् पुरुषोऽपि चिल्लः, [पिल्लः, चुल्ल:] / पशोः / षष्ठ्यन्तपशुवाचिनां समूहः संघ इत्यर्थे कटः स्यात् / अवीनां संघ:, अविकटः / महिषीकट: / स्थानादिष्वर्थेषु गोष्ठादयः स्युः पशोः / गवां स्थानं, गोगोष्ठम् / महिषीगोष्ठम् / उष्ट्रगोष्ठम् / पट: स्यात् पशोविस्तारेऽर्थे / अवीनां विस्तारः, अविपटः / गोपटः / अस्येति षष्ठ्यन्ताधिकारे / स्नेहेऽर्थे तैलः स्यात् / तिलानां विकारः स्नेह: तिलतैलम् / सर्षपतैलम् / इङ्गदीतैलम् / अस्येति प्रकृत्यर्थस्य षट्त्वे द्वित्वे च यथाक्रमं षड्गवगोयुगौ स्तः / षड् हस्तिनः, हस्तिषड्गवम् / अश्वषड्गवम् / तथा द्वौ गावी. गोयुगम् / उष्ट्रगोयुगम् / [हस्तिगोयुगम् / अश्वगोयुगम् / ] मृदस्तिक: / मृत्तिकार्थे / स्तुत्येऽर्थे न स एतौ वा स्तः / मृत्स्ना / मृत्सा / मृद्रूपः / नामरूपाद् धेयो वा स्यात् स्तुत्ये / नामधेयं नाम / रूपधेयं रूपम् / य धेयश्च भागात् स्तुत्ये / भाग्यम् / भागधेयानि / नवादेर्यः स्तुत्ये वा / नव्यम् / नवम् / नवशब्दो नू च स्यात् खत्नप्तनाः प्रत्ययाश्च स्युः / नवम् / नवीनम् / नृत्नम् / नूतनम् / पुराणेऽर्थे प्रात् न च ख नप्तनाश्च स्युः / प्रणम् / प्रीणम् / प्रत्नम् / प्रतनम् / एवमाद्याकृतिगणः / श्रोत्राच्छ: च्छन्दोऽधीत इत्यर्थे, श्रोत्रियः // (10) प्रात् क प्रकृष्टे तमप् / [2 / 3 / 1 / 10 / ] प्रथममतिशायनेऽर्थे तमप् स्यात् / अयमेषामाढ्यः, आढ्यतमः / पाचकतमः / गोतमः / समा या विजायते क्षत्रियापत्यं स्त्री, दारतमा / अतिशयेनास्य शुक्लानि वस्त्राणि, शुक्लवस्त्रतमकः / पाण्डुपुत्रतमकः / प्रात् कः प्रकृष्टे तमप्