________________ [अथ द्वितीयाध्याये तृतीयः पादः // ] प्रज्ञेभ्योऽणिति हादितो ण्य कुतुपो हुस्वे र शुण्डाकुटी - शम्याष्टित्तर कासुगोण्यलघुतोऽथाश्वोक्षवत्सर्षभात् / / हीने तु प्रकृतोक्तितोऽत्र मयड्वा जस्वृन्दवत् कुत्सिते पाशप् डामहजादि मातृप्रभृतेः प्रात्क प्रकृष्टे तमप् // 1 // शार्दूलविक्रीडितम् // ___ (1) प्रज्ञेभ्योऽणिति हादितो ण्य / [ 2 / 3 / 1 / 1 / ] प्रथमान्तात् स्वार्थे प्रज्ञादेरण् इति हादेः ण्यप्रत्ययस्य तो / वृत्तत्रयं तथात्र - प्राज्ञो रक्षोऽप्यसुरमरुतौ योधकार्षापणौ स्तः कुञ्चाग्नीधे अशनिविकृते चोरसन्नाय्यविद्याः / षोडच्चक्षुविदतृजगतीदेवताबन्धुशत्रु - तृप्तश्रोत्रे हरिणवपुषोरोषधेः स्यादजातौ // 1 // प्रत्यक्षजुह्वद्वणिजो वयो मनः साधारणानुषगुशिच्चिकीर्षिताः / मत्स्ये विसारिककुदग्रहायणः प्निशचेरेचुपचेयशत्रचो // 2 // सन्तपनोऽथ वियातदशा) सन्दिशि कर्म तु णज्णिनु वृच्चे / तीतिहभेषजनन्तविलोकात्वावसथाश्च समीपतदर्थाः / . आश्रमवर्णयुगाश्चतुरः स्युः सर्वचतुद्वित्रितोऽपि तु विद्या // 3 षट्पदी // प्रज्ञ एव प्राज्ञः / प्राज्ञी स्त्रीत्यादि / तथा काष्र्णो मृगश्चेत् / श्रोत्रं शरीरं चेत् / औषधं पिबति / जातो तु ओषधयो रूढाः क्षेत्रे / वैसारिणो मत्स्यः / शतृ / शत्रेव शातम् / अथो निपातः / सन्दिशि कर्म तु सन्देशेऽर्थे वाचिकं श्रुत्वा यत् तथैव क्रियते तत् कर्मैव कार्मणम् / णच्णिनुप्रत्ययाभ्याम् / व्यावकोशी सोकुट्टिनं वर्तते / वृच्चेति प्रज्ञादि / अत इति / हादिः / ऐतिह्यमित्यादि / चतुरः आश्रमादि / चातुराश्रम्यम् / [चातुर्वर्ण्यम् / चातुर्युग्यम् / ] सर्वादेः विद्या / सार्ववैद्यम् / [चातुर्विद्यम् / द्वैविद्यम् / त्रैविद्यम् // ] (2) कुतुपो हुस्वे / [ 2 / 3 / 1 / 2 / ] हुस्वाधुपाधिके स्वार्थे तो विधेः हुस्वः कुतः कुतुपो निपात्यते // (3) 2 शुण्डाकुटीशम्याः / [ 2 / 3 / 13 / ] एभ्यो र: स्याद् / हूस्वा शुडा शुण्डारः / [हुस्वा कुटी कुटीर: / हूस्वा शमी शमीरः / ] स्वतः पुंसि //