________________ द्वितीयोऽध्यायः द्वितीयः पादः 127 [आङ्गारवैणवः / ] संयोगश्च प्रयोगश्चेति / एके सांयोगप्रायौगिकम् / आबद्धौ आधिदैविकम् // 2 // सौत्रनाडिः / [औदकशौद्धिः / पौष्करसादिः / आभिगामिकः / शातकौम्भः / चातुर्वैद्यम् / ] इक् / तदर्हे वण् / स्वार्थेऽण् / ण्युट् वा / णिटि किम् ? राजपुरुषायणिः // 3 / / प्राचां देशे नगरस्य तथ / सोमनागरः / पौण्ड्रनागरः / प्राक् किम् ? माद्रनागरः / हृदादेः तथा / सौहार्दम् / साक्तुसैन्धवम् / दौ गिनेयः / अनिन्द्रदेवता आत्वे / इन्द्रवर्जदेवतामात्रविषये, द्वन्द्व इत्यर्थः, तथा / आग्निमारुतम् / ऐन्द्राबार्हस्पत्यम् / आत्वे किम् ? स्कान्दविशाखः / अनिन्द्रस्य किम् ? सौमेन्द्रम् / आग्नेन्द्रम् / परस्यैव / ऐन्द्राग्न्यम् / अनाच्च वरुणस्य तथा / आग्निवारुणम् / अनात् किम् ? ऐन्द्रावरुणम् / सर्वलोकादिनस्तथा / सार्वलौकिकम् / कौरुपाञ्चालकम् / इत्याद्याकृतिगणः // 4 // (62) जङ्गलावनोर्वा वलजस्यापि / [ 2 / 2 / 8 / 4 / ] एषां परेषां वा, आदेस्तु नित्यम् / कौरुजाङ्गलः / कौरुजङ्गलः / वैश्वधेनवम् / [वैश्वधैनवम् / ] सौवर्णवालजम् / चोत्तरवाक्यार्थः / पादः षष्ठोऽयमिष्यते // 8 // [इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे द्वितीयाऽध्याये द्वितीयः, आदितो वा ___षष्ठः, पादः // ]