________________ पञ्चग्रन्थी व्याकरणम् द्विवार्षिकः / [अधिकवार्षिक: / / भाविनि तु, त्रैवार्षिकं धान्यम् // (55) मानेऽशाणेऽकुलिजाख्ये / [2 / 27 / 3 / ] आभ्यां मानस्याऽशाणादेस्तथा / द्विकौडुविकः / द्वित्रिकौडुविकः / अधिकसौवर्णिकः / अशाणादेः किम् ? द्वैशाणः / [त्रैशाणः] द्वैकुलिजकः / [त्रैकुलिजकः / ] आख्यानाम्नि / पञ्चलोहित्यः मानमस्य पाञ्चलोहितिकः / अत्रैव तृदन्ततेष्टा // (56) वाऽऽदेस्त्वनतोऽर्धात् / [2 / 27 / 4 / ] इत आदेर्वा परस्य नित्यम्, अर्धात् परस्य मानस्यानस्तथा / आर्धद्रौणिकम् / अर्धद्रौणिकम् / अर्धखार्यां भवा अर्धखारी, साऽस्य भार्या अर्धखारीभार्यः / अनतः किम् ? अर्धप्रस्थी / [आर्धप्रस्थी / ] अर्धप्रस्थभार्यः // (57) प्राद्वाहण एये / [2 / 27 / 5 / ] प्रात् परस्य वाहणस्य तथा एये टादि शित् णिति परे / प्रावाहणेयः / [प्रवाहणेयः / ] प्रावाहणेयीभार्यः / [प्रवाहणेयीभार्यः / ] यद्वा एये एयान्तस्यास्य ञ्णिति परे / प्रावाहणेयिः / प्रवाहणेयिः // (58) स्यान्नानिपुणक्षेत्रज्ञेश्वरशुग्भ्यः / [2 / 27 / 6 / ] द्वन्द्वैकत्वं कृत्वा पुनरितरेतरयोगः / नत्रः आन / ततो नात् परस्य निपुणादेस्तथा / आनैपुणम् / अनैपुणम् / इत्यादि [= आक्षैत्रज्ञम् / अक्षैत्रज्ञम् / आनैश्वर्यम् / अनैश्वर्यम् आशौचम् / अशौचम्] // 7 // कुशलस्य परस्यानुशतिकादेच जङ्गल - / वनोर्वा वलजस्यापि पादः षष्ठोऽयमिष्यते // 2 / 2 / 8 // श्लोकः // (59) कुशलस्य / [ 2 / 2 / 8 / 1 / ] तथा मात् / आकौशलिः / [अकौशलिः] (60) परस्य / [ 2 / 2 / 8 / 2 / ] ए एनादेः / तत्र क्वचिद् गुरुलाघवं संहितपारार्थ्यम् // (61) अनुशतिकादेश्च / [ 2 / 2 / 8 / 3 / ] परस्य, आदेश्च नित्यम् // शतिकरहत्संवत्सरसंवरणानि त्वनोस्तथा / लोक इहास्त्री च परात् सर्वाद् भूमिपुरु षौ कुरुकत् // 1 // अस्य हत्यास्य हेतिश्च वध्यौगोऽङ्गारवेणु च / संयोगश्च प्रयोगश्च देवभूतावधेस्तथा // 2 // सूत्रनडोदकशुद्धौ पुष्करसदभिगमौ / शतकुम्भचतुर्विद्याः स्याद्राजपुरु षा ण्युटि // 3 // प्राग्नगरस्य हृत्सिन्धुभगस्यानिन्द्रदेवता / / आत्वे नाच्च वरुणस्य सर्वलोकादिनो गणः // 4 // अनोः शतिकादीनि / आनुशतिकः / एवम् ऐहलौकिकः / पारस्त्रैणेयः / चकारात्, पारलौकिकः / सार्वभौमः / सार्वपौरुषः / कौरुकात्यः // 1 // अस्य हत्याशब्दोऽत्रास्ति / आस्यहात्यः / अस्यहेतिः प्रयोजनमस्य, आस्यहैतिकम् / प्रागन्त्यपदसमुदायाभ्यां प्रत्ययौ / वाध्यौगः /