________________ द्वितीयोऽध्यायः द्वितीयः पादः 125 स्वद्वारपालस्पयकृतस्वरश्वस् स्वव्यल्कशस्वादुमृदुश्वदंष्ट्रा / स्वाध्यायग्रामौ नगरं तथा स्वात् स्वारस्वर्गाद्गमनं च स्वस्तिः // 1 // स्वर्भवः स्वौवः / दौवारपालिकः / अध्यायादि त्वयं स्वात् स्वाध्यायादि / सौवाध्यायिकः / [सौवग्रामिकः / सौवनागरिक: I] एवं स्वर्गगमनमाह / सौवर्गगमनिकः / स्वेन सिद्धे स्वाध्यायादि किम् ? स्वापतेयः / अस्वागतादेः किम् ? अत्र श्लोकः - स्वागतस्वध्वरस्वङ्ग्याष्टादितीपदं तु वा / व्यङ्गव्याडव्यवहाराः न्यग्रोधस्ति विनिमये // 2 // स्वागतमाह स्वागतिकः / आश्वादिरितीडितिस्वनापूर्वात् त इकारादौ ञ्णि परे इञतश्च नित्यापि / श्वाभस्त्रिः / श्वागणिक: / इञ् / श्वाभस्त्रेरिदं श्वाभस्त्रम् / पदं तु वा / श्वापदि पदं श्वापदम् / वात्रत्यर्थः / श्वापदम् / शौवापदी / श्वापदिः / न्यग्रोधः / तीति समासे / न्यग्रोधमूला: शालयः / ति किम् ? नैयग्रोधो दण्ड: / विनिमये क्रियाव्यतिहारेऽर्थे / व्यावक्रोशी / व्याववर्ती / स्त्रियां णच् / वातोऽण् // . (48) स्यात् प्रोष्ठभद्रात् पदस्य जाते / [2 / 2 / 6 / 3 / ] आभ्यां परस्याद्यो जारिप् स्यात्, जातेऽर्थे णिनि / प्रोष्ठपादः / जाते किम् ? भाद्रपदो मेघः // (49) अंशाद् ऋतोः / [2 / 2 / 6 / 4 / ] अंशात् परस्य ऋतुवाचिनस्तथा / पूर्ववार्षिकः / अपरहेमनम् / अंशात् किम् ? ऋत्वन्तरव्यवहितासु च वर्षासु भवः पूर्ववार्षिकः / ऋतोः किम् ? पौर्वकायः // (50) अर्धसुसर्वराष्ट्रे / [2 / 2 / 6 / 5 / ] षष्ट्यर्थे सप्तमी / अर्धादिभ्यो राष्ट्रस्य तथा / अर्धपाञ्चालकः / [सुपाञ्चालकः / सर्वपाञ्चालकः / ] राष्ट्रस्य किम् ? [सुखेटकः // ] (51) अमद्रे दिशः / [2 / 2 / 6 / 6 / ] दिग्भ्योऽमद्रस्य राष्ट्रस्य तथा / पूर्वपाञ्चालकः / अमद्रस्य किम् ? आपरमद्रः // (52) ग्रामपुरे च पूर्वे / [2 / 2 / 67 / ] ग्रामनगराणां प्राच्यानां दिग्भ्यस्तथा / पूर्वेषुकामशमः / अपरकार्णमृत्तिकः / पूर्वकान्यकुब्जः / अपरपाटलिपुत्रकः / अत एव पश्चात् सन्धेः // 6 // संवत्सरसंख्ये संख्याधिकतो वर्षेऽभाविनि मानेऽशाणेऽकुलिजाख्ये / वाऽऽदेस्त्वनतोऽर्थात् प्राद् वाहण एये स्यान्नान्निपुणक्षेत्रज्ञेश्वरशुग्भ्यः // 2 / 27 // पुष्पविचित्रा // (53) संवत्सरसंख्ये संख्याधिकतः / [2 / 27 / 1 / ] संख्याधिकाभ्यां परयोः संवत्सरसंख्ययोस्तथा / द्विसांवत्सरिकः / [अधिकसांवत्सरिकः / ] त्रिसाप्ततिकः / [अधिकसाप्ततिकः / ] अतो न मानकार्यं कालस्य / द्वैमासिकः // (54) वर्षे ऽभाविनि / [ 2 / 27 / 2 / ] आभ्यां वर्षस्य तथाऽभविष्यदर्थे णिति /