________________ 124 पञ्चग्रन्थी व्याकरणम् नोन्तः तश्चत्यटि / भ्रौणहत्यः / दैवत्यः / उ निपातः / भ्रौवेयः / हिरण्यस्य मयटि / इक्ष्वाकु / सरयू / अनयोरणि / इत्यादि // (39) कोऽशश्वदुग्दोस्तिसुसः / [ 2 / 2 / 4 / 10 / ] शश्वर्जितादूक्यदोसत इस्उसन्तात् पराणादि ठ कोऽन न स्यात् / शाबरजाम्बुकः / मातृकः / दोष्णः / औदश्वित्कः / सार्पिष्कः / धानुष्कः / इसुस् प्रत्ययः किम् ? आशिषिक: // (40) इक् / [ 2 / 2 / 4 / 11 / ] ठ इक् स्यादन्यतः / आक्षिकः // (41) ईन्खः / [ 2 / 2 / 4 / 12 / ] खोणादिरीन् स्यात् / आढ्यकुलीनः // 4 // .. ईयायनेयियुच्छफढा घ आद्या आरैजजक्षु णिति दीर्घसत्रे आ देविकाश्रेयसि शिंशपायामियिमत्रयौ य्यु प्रलये च केकये // 2 / 2 / 5 // उपजातिः // (42) ईयायनेयियुच्छफढा घ आद्याः // [ 2 / 2 / 5 / 1 / ] छ: फ: ढः घश्च प्रत्ययादिभूताः क्रमेण ईय् आयन् एय् इय् स्युः / गार्गीयः / नाडायनः / वैनतेयः / क्षत्रियः / आदि किम् ? उरुदघ्नः // (43) आरैजजक्षु णिति / [2 / 2 / 5 / 2 / ] जितिणित्यणादौ अक्षु मध्ये आद्योऽच् यथास्थानम् आ आर् ऐच् स्यात् / गार्ग्य: / कार्तिकेयः / पितिकायनः / औपगवः / श्रियाः श्रायः परत्वात् / आद्या इत्यापादम् // (44) दीर्घसत्रे आ देविकाश्रेयसि शिंशपायाम् / [ 2 / 2 / 5 / 3 / ] एष्वाद्योऽच् आ स्यात् / [दीर्घसत्रे भवं] दीर्घसात्रम् / [देविकाकूले भवा] दाविकाकूलाः शालयः / [पूर्वदेविका नाम प्राग्ग्रामः तत्र भवः] पूर्वदाविकः [पुरुषः] / [श्रेयोऽधिकृत्य कृतमिति] श्रायसं [द्वादशाङ्गम्] / [शिशपास्थले भवः] शांशपश्चमसः / [पूर्वशिशपा नाम प्राग्ग्रामः तत्र भवः] पूर्वशांशपः [पुत्रः] // (45) इय् मित्रयौ य्यु प्रलये च केकये / [ 2 / 2 / 5 / 4 / ] एत्स्थ: य् युश्च इय् स्यात् / मित्रयुभावेन मैत्रेयिकया श्लाघते / प्रालेयम् [उदकम्] / कैकेयः आगतापत्ये // 5 // न य्वः पदाद्वैज्स्वरस्वागतादेः स्यात् प्रोष्ठ भद्रात् तु पदस्य जाते / अंशादृतोरर्धसुसर्वराष्ट्रेऽमद्रे दिशे ग्रामपुरे च पूर्वे // 2 / 26 // वृत्तम् // (46) न य्वः पदाद्वैच् / [2 / 2 / 6 / 1 / ] यस्यारैज् उच्यते तत्सम्बन्धे पदात् य्वः यकारवकारान्तात् परस्याद्योऽजारैज् न स्यात्, तस्यैव युः टैजागमस्तु स्यात् / [व्यसने भवं / ] वैयसनम् / [व्याकरणस्य बोद्धाऽध्येता वा] वैयाकरणः / [पूर्वत्र्यलिन्दे भवः] पूर्वत्रैयलिन्दः / [स्वश्वस्यापत्यं] सौवश्वः / य्वः किम् ? द्वैमातुरः / पदात् किम् ? याष्टीकः [=यष्टिः प्रहरणमस्य] / आरैज्जजाद्यः किम् ? व्याशीतिकः [=वे अशीती भृतो भूतो भावी वा] / अत्रोत्तरपदस्यारैच् // (47) स्वरस्वागतादेः / [2 / 2 / 6 / 2 / ] स्वागतादिवर्जितस्य तद्वत् / अप्राप्तविधिप्राप्तनिषेधार्थमिदम् / वृत्तमिह -