________________ द्वितीयोऽध्यायः द्वितीयः पादः 123 पैलौदमेध्योदकशुद्धयः स्युः स्तः पैप्पलादायनि सात्यकामी / औदवजि लिकिसत्यकी च शालङ्किरौदञ्चिरथौदमज्जि // 1 // औदभृज्ज्यौज्जहानी च राहक्षत्र्यौद्गहायनी / दैवस्थान्यौदमञ्ची च अङ्गादिः पैङ्गलायनि // 2 // अङ्गादिजनपदनाम्नः क्षत्रियादण् / आङ्गः / वाङ्गः / पिता पुत्रश्चेत्यादि / -- (31) ण्यार्थञितोऽणिजौ च / [2 / 2 / 4 / 2 / ] ण्यान्ताद् आर्षाद् जिदन्ताच्चापत्याद् आपत्यावणिौ लुक् स्तः / कौरव्यः, पिता पुत्रश्च / राजा तु तिकादिपाठात्, कौरव्यायणिः पुत्रः / आर्षात् वासिष्ठः [पिता पुत्रश्च] / इल्लुक् / तैकायनि: [पिता पुत्रश्च] / वैदः [पिता पुत्रश्च] / अणिजौ लुक् अपत्यात् किम् ? द्वैपस्यापत्यं द्वैप्यिः / एभ्यः किम् ? औपगवः पिता / औपगविः पुत्रः / अणिोः किम् ? दाक्षायणः / आपत्यं किम् ? वामस्थस्य च्छात्राः वामरथाः // (32) डे विंशतौ तादि / [ 2 / 2 / 4 / 3 / ] डिति परे विंशतिशब्दे अत एवाडौ तादि लुक् / [विंशत्या क्रीतं] विंशकम् / [विंशतिरधिकाऽस्मिन्] विंश शतम् / [विंशतेः पूरणो] विंशः / उपविंशाः // (33) तमेऽन्तिके / [2 / 2 / 4 / 4 / ] तमे परेऽन्तिकशब्दे तादि लुक् / अतिशयेनान्तिकः अन्तमः // . (34) वा कादि / [ 2 / 2 / 4 / 5 / ] वा व्यवस्थार्थः / अन्तिके कादि लुग्वा / अन्तितमः / अन्तिकतमः / [अन्तिके] सीदति साधुश्चात्र, अन्तिषत् / अन्तियः // (35) उढे / [ 2 / 2 / 4 / 6 / ] उव्वर्णाल्लुग्वा ढे / भाद्रबाहेयः / जाम्बवेयः / वैमा[त्रेयः] / काद्रवेयः / . (36) उ / [2 / 2 / 4 / 7 / ] उवर्णा[न्तस्य] उ अव् यणादौ / कापटवः / बाभ्रव्यः / वा / स्वायम्भुवः // (37) अवाव्य इहौ च / [2 / 2 / 4 / 8 / ] अव् आव् स्तौ ये परे ओ औ च स्वाभाविकौ / गव्यम् / गव्यति / गव्यते / [नाव्यति / नाव्यते / ] इहेति अस्मिन्नेव ये परे यौ ओऔ यनिमित्तौ सावेव स्यात् / यि च व्यः / तथा, लव्यम् / अवश्यलाव्यम् / ण्युपान्तदीर्घः / इह किम् ? उपोयते / लोयमानिः / यनिमितुः स्वाभाविकत्वाभावात् // (38) नैषाम् / [ 2 / 2 / 4 / 9 / ] हृदयस्थामत्योजादे लुंगभावादि निपात्यते / अत्र स्यात् पञ्चपात् - आलाध्वनो खे यजि दण्डिस्ति नारके तु राजन्यमनुष्ययूंनाम् / / जैत्यासिवासितृपिजोर्पोटिन्तः स्याद् भ्रूणहन् धीवनुटे ध्रुवो तुक् / हिरण्यमयैक्ष्वाकउसारवोऽणि // 1 // उदाहरणानि / आत्मनीनाः / दाण्डिनायनः / राजन्यकम् / जैह्नासिनेयः / वासिनायनिः /