________________ 122 पञ्चग्रन्थी व्याकरणम् (24) नाण्यचि / [2 / 2 / 3 / 6 / ] अपत्ये आ यु वा स्केत्यादिना यस्यापत्यस्य लुगुक्तस्तस्य न स्यादचि, अणर्थे अजादावणादौ विषयभूते / एवं सर्वत्र / गर्गाणां च्छात्राः गार्गीयाः / एवं तैदीयाः / आत्रेयीयाः / अणि किम् ? हिते गर्गीयः / अचि किम् ? गर्गरूप्यः / (25) अपत्यादपि / [2 / 2 / 3 / 7 / ] अपत्यप्रत्ययान्ताद् आपत्यं लुगण्यपि / . फाण्टाहृतस्यापत्यं फाण्टाहृतिः / तस्यापत्यं फाप्टाहृतः / तस्य च्छात्राः / फाण्टाहृताः / णलुकि इञोऽण् / भगवित् तस्यापत्यम् इड्, तदपत्यं सौवीरेषु / त एका, तस्य च्छात्रा भागवित्ताः / तिकात् पिजः पुनः छः, तस्य च्छात्राः तैकायनाः / ष्कपिञ्जलादादिञ् / पुनः ण्यच् / तस्य च्छात्राः कापिञ्जलादाः / अच्यविभागः / चित्तिकीयाः / फाण्टाहृतरूप्यः // (26) फण्फिी वा / [ 2 / 2 / 3 / 8 / ] अपत्याद् परौ लुक् स्तो वाऽण्यचि / गार्गीयाः / . गाायणीयाः / यास्कीयाः / यास्कायनीयाः छात्राः // (27) राजेऽञ् / [ 2 / 2 / 3 / 9 / ] प्रत्येकं सेः क्षत्रियापत्येजन्तादपत्यं लुग् वा / औदुंम्बरि: पिता, औदुम्बरि: औदुम्बरायणो वा पुत्रः / एवमाश्मकिः [पिता], [आश्मकायन:] / यण्लुक् / राजकिन्दायणः / वेत्येके / अण्यचि निवृत्तम् // (28) अविप्रात् / [2 / 2 / 3 / 10 / ] ब्राह्मणवर्जितादपत्यादापत्यं लुग् नित्यम् / बौधिः / [बौधायनः / ] जाबालिः / [जाबालायनः / ] भाण्डीजङ्घिः / [भाण्डीजङ्घायनः / ] कार्णेखरिः / [काणेखरायणः / ] पिता पुत्रश्च / अविप्रात् किम् ? कार्तायणिः पुत्रः / (29) इञतौल्वलिभ्यः [ 2 / 2 / 3 / 11 / ] प्राचेञन्तादतोल्वल्यादेरपत्याद् आपत्यं लुक् / पान्नागारिः, मान्थरैषणिः, पिता पुत्रश्च / प्राच्यात् किम् ? [दाक्षिः पिता / ] दाक्षायणः [पुत्रः] / इञ् किम् ? राघवः पिता / राघविः पुत्रः / अतौल्वलिभ्यः किम् ? [तोल्वलिः पिता / ] तौल्वलायनः पुत्रः / अस्मिन् सवितानवृत्ते - तौल्वलि तैल्वलि धारणि रावणि वाधकि नैवकि बैल्वकि वैकलि / आनुति आसुरि नैवसि वैरिकि पौष्करसादि दालपि नैमश्रि च // 1 // दैवयज्ञि आहिसि आतङ्कि च आसिनामि प्रादौहनि दैवमतिश्च पौष्पिः कारेणुपालिस्त्वथ दैवतोति // 2 // चैङ्किपादांहती स्यातां चापडक्या तु पराहनी / केषाञ्चिदेवेष्टा जेषलीत्याविनन्थकी सुबसुप् छन्दोर्थम् / दीलपस्यात्वं च दालपिः // 3 // पैलादितो ण्यार्थजितोऽणिजौ च डे विंशतौ तादि तमेऽन्तिके वा काधुळे उऽवाच्च इहौ नैषां कोऽशश्वदुग्दोस्तिसुसः ठिगीन्खः // 4 // वृत्तम् // (30) पैलादिभ्यः / [2 / 2 / 4 / 1 / ] अपत्यान्ताद् / आपत्यलुक् / पैल: / औदमेधिः / पिता पुत्रश्च / अप्राप्यार्थमिजन्ता / अत्रेन्द्रवज्रवितानम् -