________________ द्वितीयोऽध्यायः द्वितीयः पाद: 117 कथम् आढ्याः ! निर्धार्यम् / अस्मात् कार्षापणाद् भवद्भ्यां माषं माषं देहि / माषौ माषौ देहि / समत्वे किम् ? आढ्यो ना, कतराऽस्याढ्यता ? अतोऽस्मै पादं देहि / अवीप्सार्थमिदम् / अधोऽध्युपरि च मामीप्येऽर्थे / अधोऽधो ग्रामम् / अध्यधि स्थापयति / उपर्युपरि विप्रान् दीक्षते / सामीप्ये किम् ? उपरि चन्द्रमाः / उपरि शिरसो घटः / इत्यौत्तराधर्यविवक्षया / तथा वाक्यप्रयोगे वर्जनेऽर्थे परि वा / परि परि त्रिगर्तेभ्य [वृष्टो देवः] / वाक्ये किम् ? परि त्रिगर्तं वृष्टः / वर्जने किम् ? ओदनं परिषिञ्चति / प्कोने रिद्गुणः / ईषदूनेऽर्थे गुणवचनं द्विः सुप्लुक् च स्याद् आदिः, पूर्वपदस्थः स च षित् पुं स्वार्थ ईषत् / पटु-]पटवी / मृदुमृद्वी / गौरगौरी / कालिककालिका / श्येनश्येनी / गुणः किम् ? आऽग्निः सः / कोने किम् ? मृदुः सः / कोनेऽर्थे वृत्त्यभावोऽत्र रूपादीनां रित् सर्वस्य पुंस्त्वार्थम् / आबाधे / प्रयोक्तुर्मनः पीडागतौ पदं द्विः, आदिसुप् प्लुक् स्यात् / ऋक् ऋक् / पू: पू: / गतगता / नष्टनष्टः / पञ्चमी पञ्चमी / पित् पुंस्त्वार्थम् / सुखप्रिये / द्विः सुः अकृच्छ्रेऽर्थे वाऽऽदिसुप् लुक् / सुखसुखेन [ददाति / ] प्रियप्रियेण ददाति / सुखेन प्रियेण वा [अखिद्यमानो ददातीत्यर्थः / ] अकृच्छ्रे किम् ? प्रियः पुत्रः / सुर् अव्यतिहारे / सर्वादीनां सुप् प्लुग् आदिसुगागमश्चादिर्बहुत्वेऽलम् / चौ रे त्रेत्यादौ पठितावेतौ / अन्योन्यं परस्परम्, इतरेतरं भोजयन्ति / यथायथं निपात्यते यथास्वम् इत्यर्थे / यथायथं ज्ञाता अर्थाः / यथास्वभावम् [इत्यर्थः] / यथायथं यान्तु / यथात्मीयम् [इत्यर्थः] / पदान्तेन पदं द्वितीयान्तं निपात्यते / तेनति पदेन यत्सदृशतरं तेन मह / पदं पदेन रोहति / एवं, गृहं गृहेण धावति / एवमाद्याकृतिगणः // . (3) अचां च वाक्ये प्लुतोऽन्त्यादि वा / [ 2 / 2 / 13 / ] वाक्ये सन्निविष्टाचामन्त्योऽच् . प्लुतः स्याद्, आदिशब्दाद् आदौ, मध्ये च बहुलम् / दशरेह / [प्रति] श्रुतिवृत्त्युपालम्भने चेदिवार्थे चिति प्राग्विचारे तथारम्भ ओं युत्तरे प्रश्न एकैक आशी: प्रयोज्ये क्षियायामपेक्ष्यतिङो भर्त्सनेऽङ्गेन किद्विस्तदादौ पुरोऽर्चाप्रकोपेऽर्च्यमन्ते तु दूराद् गुरु र्वाऽनृ हे है तु भोगोत्रनाम्नोऽभिवाद्येऽन्तरेऽन्ते त्वशूद्रस्त्रियास्तच्च प्रश्नान्तपूजाविचारेऽ गिदादे च आयुठपरश्चायूटवौ चतुर्मात्र ऐच् स्याद् गणः // 1 // वेति सर्वत्र / प्रतिश्रुतिरभ्युपगमः / प्रतिज्ञा[नं] श्रवणाभिमुख्यं चोच्यते / गां देहि भोः हन्त ददामि३ / [हन्त ददामि / नित्यः शब्दो भवितुमर्हति३ / [नित्यः शब्दो भवितुमर्हति / ] नर किमात्था३ / [नर किमात्था / ] भोः किमाकर्षा३ / [भोः किमाकर्षा |] सप्रतिक्षेपे निगृह्ये उपालम्भस्तदर्थे / अद्य श्राद्धमित्यात्थ३ / [अद्य श्राद्धमित्यात्थ / अत्र वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते / ] इवार्थे चिति / [चिद् इति] शब्दे [उपमार्थे] सति / राजा चिद् भूया३त् / [राजाचिद् भूयात् / ] राजेवेत्यर्थः / अग्निचिद् भूया३त् / [अग्निचिद् भूयात् / ] अग्निरिवेत्यर्थः / इवार्थे किम् ? कथञ्चिद् आहुः / प्राग्विचारे / विचारविषये पूर्ववाक्यान्त्योऽच् / अहि५३ रज्जुर्नु ? [अहिर्नु रज्जुर्नु ?] स्थाणुY३ पुरुषो नु ? [स्थाणुर्गु पुरुषो नु ?] तथारम्भ ओम् / ॐ३ अग्निमीळे पुरोहितम् / आरम्भे किम् ? ओमित्यक्षरमुपासीत / ह्युत्तरे / पृष्टप्रतिवचनमुत्तरम् / तदर्थे वाक्यान्तो ‘हि: / अकार्षीः कटं त्वम् ? अकार्षं ही३ / [अकार्षं हि / ] अलावीस्त्वम् ? अलाविषं ही३ / '