________________ 118 पञ्चग्रन्थी व्याकरणम् [अलाविषं हि / ] किं करोमि कटम् ? करिष्यसि हि / प्रश्न एकैकः / प्रश्ने लुप्तचकाराद् एकैकग्रहणाद् वा उत्तरे च यद् वाक्यं वर्तते तत्पदान्त्योऽच् एकैक: प्लुतो वा स्यात् / अगम३: पूर्वा३न् ग्रामा३न् अग्निभूता३ इ ? [अगमः पूर्वान् ग्रामान् अग्निभूते ?] अगम३म् पूर्वा३न् ग्रामाइन् पटा३ उ [अगमं पूर्वान् ग्रामान् पटो ?] आशीः प्रयोज्ये क्षियायामपेक्ष्यतिङ: / तिङन्तवाक्यान्तोऽच्, अपेक्षा चेत् तिडन्तस्याशंसने / पुत्रांश्च लप्सीष्ठा३: धनं च तात / [पुत्रांश्च लप्सीष्ठाः धनं च तात / ] प्रेषे / कटं कुरु 3 ग्रामं [च] गच्छ / [कटं कुरु ग्रामं च गच्छ / ] क्षियायाम् / स्वयं रथेन याति३ उपाध्यायं पदातिं गमयति / [स्वयं रथेन यात्युपाध्यायं पदातिं गमयति / ] भर्त्सनेऽर्थेऽङ्गेन युक्तं . तिङन्तं तिङाकाक्षं द्वे च प्लुतं च स्यात् / अङ्ग कूज३ अङ्ग कूज३ अङ्ग कूज३ इदानीं ज्ञास्यसि जाल्म / भर्त्सने किम् ? अङ्गाधीष्व ओदनं दास्यामि / किद्विस्तदादौ / भर्त्सने वाक्यादौ स्यादौ किद् आमन्त्रितं पदं द्विः स्यात्, तयोरन्त्योऽच्, आदिपदस्य वान्त्योऽच् प्लुतः स्यात् / चौर चौर३ [चौर३ चौर] दस्यो दस्यो३ [दस्यो३ दस्यो] घातयिष्यामि त्वाम् / आदौ किम् ? अविनीतः खल्वसि माणवक / कित् किम् ? चौरस्त्वमतो ज्ञास्यसि / पुरोऽर्चाप्रकोपे / अर्चायां प्रकोपे चार्थ किदादौ पदं द्विः पुरः पदान्त्योऽच् च प्लुतः स्यात् / माणवक३ माणवक, अभिरूपकं३ अभिरूपक, शोभनः खल्वसि / कोपे / माणवक३ माणवक, अविनीतक३ अविनीतक, इदानीं ज्ञास्यसि जाल्म / कुत्सायां च कोपोऽसि / शक्तिके३ शक्तिके, यष्टिके३ यष्टिके, रिक्ता ते शक्तिः / असूयायामपि / माणवक३ माणवक, अभिरूपक३ अभिरूपक, रिक्तं त आभिरूप्यम् / आदौ किम् ? शोभन: खल्वसि माणवक / सित् किम् ? उदारो ना / अय॑मन्ते / वाक्यान्ते यत् क्वित् पदमर्यं तदन्त्याऽच्. प्लुतः / शोभन: खल्वसि माणवक३ / एवम्, अग्निभूता३ इ / [अग्निभूते / ] दूराद् गुरुर्वाऽन् / तित् ऋवर्जः दूराद् आमन्त्रितो वाक्यान्तेऽज् वा गुरुर्वा प्लुतः स्यात् / आगच्छ 'भो देवदत्त 3 / [आगच्छ भो देवदत्त / ] तथा अग्निभूते / अग्निभूते / अग्निभूता 3 इ / गुरुर्वा समुच्चये / दूरात् किम् ? एहि नर / अन किम् ? कृष्णमि३त्र / कृष्णमित्र३ [कृष्णमित्र / ] हे है तु / तुरेवार्थे / वाक्यस्थो हे है एव प्लुतौ स्तः / हे 3 देवदत्त / हे देवदत्त / [देवदत्तं हे 3 / [देवदत्त हे / ] एवं है 3 [देवदत्त / देवदत्त है / है देवदत्त / ] भोगोत्रनाम्नोऽभिवाद्येऽन्तरेऽन्ते त्वशूद्रस्त्रियाः / अभिवादकायाशीर्दानम् अभिवादोत्तरं, तद्विषये शूद्रस्त्रीवजिते यद् वाक्यं तदन्तस्थस्य भोशब्दस्य गोत्राभिधायिनः स्वसंज्ञाशब्दस्य चामन्त्रितस्यान गुरुरचामन्त्योऽच् प्लुतः स्यात् / अभिवादये चित्रोऽहं भोः आयुष्मानेधि चित्र भो३: / [आयुष्मानेधि चित्र भोः / ] एवम् [आयुष्मानेधि] गार्ग्य३ / एवम् [आयुष्मानेधि] देवदत्त / देवद३त्त / देवदत्त३ / इन्द्रशर्मइन् / अशूद्रस्त्रियाः किम् ? आयुष्मानेधि जतूषक / आयुष्मती भव गार्गि / अन्ते किम् ? देवदत्तायुष्मानेधि / तच्चेत्यादि / तच्चेत्यशूद्रस्त्रीप्रत्यभिवादेऽन्ते यत् पदं, तथा प्रश्नान्ते पूजायां विचारे वा अगिदादि एजन्तस्य आयु [=इउ]त्पर आकारः प्लुतो वा स्यात् / प्रश्नान्ते / अगम३: पूर्वा३न् ग्रामाइन् अग्निभूता३ इ पटा 3 उ? पूजा / हृदोऽसि माणवक अग्निभूता३ इ पटा 3 उ / विचारे / होतव्यं दीक्षितस्य गृहा३ इ / तच्च / आयुष्मानेधि अग्निभूता३ इ पटा३ उ / एषु किम् ? आगच्छाग्निभूते३ दस्यो३ दस्यो ज्ञास्यसि / अगिदादि किम् ? शोभने खलु स्तः खट्वे / अचि यूय्वौ तावाकारात् परी. यू इड् गतौ य्वौ स्तोऽचि परे हुस्वदीर्घबाधार्थम् / अग्निभूता३ यिह / पटा 3 वत्र / पटा३वुदकम् / चतुर्मात्रो HHHHHHHHHH