________________ [ // अथ द्वितीयाध्याये द्वितीयः पादः // ] सम्भ्रमे स्यादनेकं पदं द्विस्तु वीप्सादिकेऽचां च वाक्ये प्लुतोऽन्त्यादि वा णीयइष्ठे युवाल्पौ च कन् श्रः प्रशस्य एज्ज वृद्धश्च बाढान्तिको साधनेदौ // 1 // स्रग्विणी // (1) सम्भ्रमे स्यादनेकं पदम् / [2 / 2 / 1 / 1 / ] भयादगतिकृतः संक्षोभः सम्भ्रमः / तस्मिन् गम्यमाने प्रयोक्तुः पदं सुप्तिडन्तमनेकवारं प्रयुज्यते / अहिरहिरहिः / बुध्यस्व [बुध्यस्व बुध्यस्व // ] (2) द्विस्तु वीप्सादिके / [ 2 / 2 / 1 / 2 / ] वीप्सादिष्वर्थेषु यद् वर्तते पदं तद् द्विरुच्यते / इह वृत्तं विताने - वीप्सा क्रियाव्यक्तिविशेषणे च नित्यानुपूर्ये प्रथमश्च पूर्वः / घे डाचि संप्रादुपपादपूर्ती किरू पनिर्धार्यमथो समत्वे // 1 // अधोऽध्युपरि सामीप्ये वाक्ये वा परि वर्जने / प्कोने रिद्गुण आबाधे सुप्लुगो द्विः सुखप्रिये // 2 // वाऽकृच्छ्रे सुव्यतिहारे सर्वादीनां यथायथम् / यथास्वे तु पदं तेन गृहं तेन यथाकृति // 3 / / क्रियागुणद्रव्यैर्भिन्नानर्थान् व्याप्तुमिच्छा वीप्सा / वृक्षं वृक्षं सिञ्चति / ग्रामो ग्रामो रमणीयः / ग्रामे ग्रामे पानीयम् / क्रियाव्यक्तिविशेषणे / शनैः शनैरधीते / मन्दं मन्दं याति / पुनः पुनर्भुङ्क्ते / क्रियायाः व्यक्तिविशेष्यते येन तद् द्विविशेषणम् / अध्ययनं शनैः शनैः, करोतीत्यर्थः / व्यक्ति किम् ? शनैरधीते / नित्यानुपूर्थे / आभीक्ष्ण्यमिह नित्यता / आभीक्ष्ण्यं च क्रियाधर्मः / पचति पचति / भुक्त्वा भुक्त्वा अधीते / भोजं भोजं व्रजति / लुनीहि लुनीहि इत्येवायं लुनाति / क्त्वाणमुलौ द्वित्वे पौन:पुन्यप्रकाशकौ / यङ् तु तन्निरपेक्षः / [पुनः पुनः पचति, पापंच्यते / यङग्रहणात् पापच्यते पापच्यते इत्यन्ये [=काशि. 81 / 4] / आनुपूर्थे / मूले मूले स्थूलाः / अग्रे अग्रे सूक्ष्माः / भेदाभावान वीप्सा / प्रथमपूर्वो घे तरप्तमप्यौ घस्तद्विषये / प्रथमं प्रथमं पच्यते / पूर्वं पूर्वं पुष्यन्ति / उक्ताबाधे वा घोऽपि / प्रथमतरं पूर्वतरं वा पुष्यन्ति / [डाचि] पटपटाकरोति / पटपटायते / चित् किम् ? सञ्चाकरोति / सम्प्रोदुप एते द्विः पादपूरणे / संसमापः / [संसंश्रित्य तपः परम् / प्रप्रणम्य जिनं भव्यः / उदुदुत्पन्नमहोदयः / उपोपपद्यते श्रेयः / ] समत्वे विवक्षिते किमो रूपं निर्धारणीयं च द्विः स्यात् / उभाविमौ तुल्यजातीयौ, कतरा कतराऽनयोस्तुल्या जाति: ? सर्व इम आढ्याः, कतमा कतमा एषामाढ्यता ? कतमत् आढ्यत्वम् / कीदृशी कीदृशी विभूतिः / कथं